पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५२
नैषधीयचरिते

संख्यां न मन्यत इति युक्तमेवेत्यर्थः। तथा-माध्यमिकानामपि कियन्मात्रमतभेदेन बौद्धसिद्धा(न्ता)न्तः पातित्वात्। 'न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् ।चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः॥ इति अनिर्वचनीयप्रपञ्चवादित्वाद्विधुतं निराकृतं सदसत्सदसद्वैलक्षण्यलक्षणं कोटिचतुष्कं प्रकारचतुष्टयं येन, अथचत्वनिषेधान्निरस्तचतुष्टयः। तथा-विरक्तत्वाद्दिगम्बरत्वात्पञ्चबाणः कामस्तद्विजयी मारजित् । अथच-'वण शब्दे' इत्यस्माद्धञि वाणः शब्दस्तं पञ्चसंख्यावाचिनं पञ्चशब्दं न सहत इत्यर्थः । यो हि चतुष्टयं न सहते स पञ्चापि न सहते इति युक्तमेवेत्यर्थः। तथा-देशादिव्यवहितवस्तुदर्शनम् , देशादिव्यवहितशद्वश्रवणम् , अतीतजन्मस्थितिस्मरणम् ,परचित्तज्ञानम् , अविद्यास्मितारागद्वेषाभिनिवेशाख्यपञ्चक्लेशक्षयः,अणिमादिसिद्धिश्चेति षडभिज्ञा ज्ञानप्रकारा यस्य । वेदानुसारिभिर्दै त्यैः पराभूता देवा ब्रह्मणःशरणं गताः, ब्रह्मणा प्रसादितो नारायणो बुद्धरूपेणावतीर्य दैत्यबुद्धिं वेदार्थेभ्यश्चयावयित्वा बौद्धमतमुपदिदेश, अतस्ते देवानां जय्याः संपन्ना इति । अतएव चैतदीयमतपरिभाषयैव स्तुतिरकारि । 'परिचिताथ बुधस्त्वम्-' इति पाठे-नेति पदं भित्त्वा त्वया वेदत्रयी न परिचिता न स्वीकृतप्रामाण्या। अथ विरोधे । तथापि बुधस्त्वमित्यर्थः । 'परिचिताध्वबुधः-' इति पाठे-त्रयीपरिचितानां वैदिकानां मार्गे पण्डितो न भवति । अवैदिकमार्गमेव जानान इत्यर्थः ॥

तत्र मारजयिनि त्वयि साक्षात्कुर्वति क्षणिकतात्मनिषेधौ।
पुष्पवृष्टिरपतत्सुरहस्तात्पुष्पशस्त्रशरसंततिरेव ॥४९॥

 तत्रेति ॥ तत्र तस्मिन् बुद्धावताररूपे सौन्दाज्जितेन्द्रियत्वाच्च मारजयिनि कामस्य जैत्रे त्वयि क्षणिकता सर्व क्षणिकं सत्त्वात् , तथा-आत्मनिषेधश्च 'समनस्केन्द्रिजन्यनीलपीताद्याकारसविकल्पकनिर्विकल्पकवासनोपबृंहितचित्संततिरेवात्मा, भूतान्येव चेतयन्ते, मनसा संयोगे शानमुत्पद्यते, तस्माद्देह एवात्मा, नतु नित्योऽन्यः कश्चित्' इत्यादिप्रकारेण सर्वभावानां क्षणमात्रावस्थायिता नैरात्म्यं च स्वदर्शनोक्तं समाधिना साक्षात्कुर्वति सति पुष्पशस्त्रस्य कामस्य शरसंततिर्बाणपरम्परारूपा सुरहस्ता- (पुष्पवृष्टिरेवापतत् । अतिबले हि शत्रौ करादायुधानि पतन्ति । कामोपि त्वत्तो भीतः पुष्पशरश्च । तथाच तस्य करात्त्वद्भयेन पतिता पुष्परूपबाणपरम्परा क्षणिकतात्मनिषेधौ साक्षात्कुर्वति त्वयि विषये सुरमुक्ता पुष्पवृष्टिरिवापतदित्युत्प्रेक्षा । कामेऽपि देवत्वमेव पुष्पवृष्टिमोचने हेतुः । यो हि लोकोत्तरं वस्तु प्रत्यक्षगोचरं करोति, यश्च कंचन विजयते, तयोरुपरि देवैः पुष्पवृष्टिः क्रियते इत्यादि ज्ञातव्यम् ॥

तावके हृदि निपात्य कृतेयं मन्मथेन दृढधैर्यतनुत्रे ।
कुण्ठनादतितमां कुसुमानां छत्रमित्रमुखतैव शराणाम् ॥ ९० ॥

 तावके इति ॥ मन्मथेन दृढमभेद्यं धैर्यमेव तनुत्रं कवचं यस्य तस्मिंस्तावके हृदि मनसि, अथच-वक्षसि अर्थाच्छरान्निपात्य नितरां दृढाघातपूर्वं यथातथा पातयित्वा दृढतनुत्रत्वादेवातितमां कुण्ठनात्तेैक्ष्ण्यत्यागाद्धेतोः कुसुमरूपाणां स्वीयशराणां छत्रं