पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५१
एकविंशः सर्गः।


रेवतीशसुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा ।
कामपाल भवतः कुमुदाविर्भावभावितरुचेरुचितैव ॥ ८७ ॥

 रेवेति ॥ हेरेवतीनाम्न्याः प्रियाया ईश, तथा हे कामपाल (काम[१]पूरक, कुः पृथ्वी तस्या मुदो हर्षस्याविर्भावेन प्रादुर्भावेन भाविता संचारिता रुचिः प्रीतिरिच्छा वा यस्य तस्या भवतः श्रीकृष्णस्य तनुभासा कायकान्त्या कृत्वा नीलस्याम्बरस्य । तत्तुल्यस्येत्यर्थः । तव रुचिरा शोभना, लोकानां रुचिं प्रीतिं ददाना वा । रेवतीशसुषमा चन्द्रसंबन्धिनी परमा शोभा उचितैव किल । आकाशस्य चन्द्रशोभोचितैव । अथच-बलभद्रस्वरूपत्वाद्रेवतीशसुषमा बलभद्रस्य परमा शोभोचितैव । किंभूतस्य-कुः पृथ्वी तस्या मुदस्य हर्षस्याविर्भावेन प्रकटनेन भाविनी(ता) त्रिलोकानां रुचिः प्रीतिर्येन । कुमुदस्य चन्द्रस्याविर्भावेन वा । अथच-रेवतीनाम्नी प्रियासदृशी । तथा हे कामपाल) बलभद्र, कुः पृथ्वी तस्या मुदो हर्षस्याविर्भावेन प्रादुर्भावेन भाविता संचारिता रुचिः प्रीतिरिच्छा वा यस्य तस्य भवतस्तव तनुभासा कायकान्त्या नीलस्याम्बरस्य वस्त्रस्य रुचिं दीप्तिं राति ददाति एवंविधा सुषमा उत्कृष्टा शोभोचिता योग्यैव किल । धवलवस्तुसंपर्कान्नीलमतिशयेन शोभते । अथच हे कामपाल कंदर्पपोषक रेवतीश, चन्द्र, कैरवविकासस्फुटितकान्तेस्तव बिम्बतेजसा नीलस्य नभसः परमा शोभा युक्तैवेति ध्वनिः॥

 चतुभिः श्लोकैर्बुद्धं वर्णयति--

एक[२]चित्तततिरद्वयवादिन्नत्रयीपरिचितोऽथ बुधस्त्वम् ।
पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः॥४॥

 एकेति ॥ हे अद्वयवादिन् द्वैतबाह्यघटपटादिभेदानामसत्यताप्रतिपादनेनैकस्या ञानाकारताया एव सत्यताङ्गीकारादद्वैतवादिन्, त्वं मां पाहि । किंभूतः-एकैव चित्तततिर्ञानसंततिर्यस्य दीपकलिकान्यायेन क्षणिकज्ञानप्रवाह एवैको यस्य मते,नतु तदतिरिक्तं किंचिदप्यस्ति, तादृशः, अत एव-अद्वयवादिन् इति योजना । तथा-त्रय्या परिचितो शातस्तादृशो न भवसीत्यत्रयीपरिचितः। नसमासो वा । नेति पृथग्वा । वेदत्रयीगम्योऽपि न भवसीत्यर्थः। अथच-वेदत्रय्यां परिचितः कृतपरिचयः वेदत्रयी परिचिताभ्यस्तायेन तादृशो वा न भवति । सर्वस्य क्षणिकताङ्गीकाराद्धर्माधर्मभोगव्यवस्थाया निरासादनङ्गीकृतवेदप्रामाण्य इत्यर्थः । अत एव बुधः पण्डितः। नहि पण्डितं विना वेदादिसर्वदूषणसमर्थाऽन्यस्य बुद्धिःसंभवति । अथच-अत्रयीपरिचितोपि बुध इति विरोधाभासः। नहि वेदत्रयमजानानस्यापि पण्डितत्वं संभवति । अथच-यः पण्डितः 'एकमेवाद्वितीयं ब्रह्म' इति मन्यमानो वेदान्ती स वेदत्रयीं न मन्यत इति विरोधः । वेदान्तिना हि वेदप्रामाण्यस्य स्वीकृतत्वात्, अथच-अद्वयवादाद्वित्वसंख्यामपि नाङ्गीकरोति । स त्रित्व-


  1. कोष्टकान्तर्गतः पाठो लिखितपुस्तकद्वये नोपलब्धः ।
  2. इतः प्रभृति 'मां त्रिविक्रम-' इत्यन्ता दश
    श्लोका जीवातौ त्रुटिता उपलब्धाः ।