पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५३
एकविंशः सर्गः।

मित्रं येषां तानि, छत्रस्य वा मित्राणि, मुखानि येषां तेषां भावस्तत्ता सूचीमुखतापरित्याजनेन छत्रतुल्यवृत्तमुखेनेयं प्रत्यक्षदृश्या कृता । दृढतनुत्रे हि पातितो बाणः कुण्ठितत्वावृद्दृत्तमुखो भवति । स्मरशराः शरत्वात्पूर्वं सूचीमुखा आसन्, इदानीं तु धैर्यकञ्चुके त्वदीये हृदि निपत्य नितरां कुण्ठनादिव तेषां पुष्परूपाणां छत्राकारमुखता जातेत्युत्प्रेक्षोपमे । विकसितानि पुष्पाणि छत्रतुल्यानि भवन्ति । अथच-छत्रं छायाकारित्वात्सुखदमेव यथा नतु दुःखदम्, तथा कामशरा अपि त्वद्धृदयस्यानिर्वापका एव जाताः, नतु त्वां जेतुमशकन्नित्यर्थः । एतादृशो जितेन्द्रियः कोपि नास्तीति भावः। निपात्य, ण्यन्तात्क्त्वो ल्यप्॥

यत्तव स्तवविधौ विधिरास्ये चातुरीं चरति तच्चतुरास्यः ।
त्वय्यशेषविदि जाग्रति शर्वः सर्वविद्बृवतया शितिकण्ठः ॥ ९१ ॥

 यदिति ॥ विधिस्तव स्तुतिविधौ बहुभिर्मुखैश्चातुरी वैदग्ध्यं यद्यदि चरति प्राप्नोति नानाप्रकारैर्यदि त्वद्वर्णनं करोति तत्तर्ह्येव चतुराणि वर्णननिपुणान्यास्यानि यस्यैतादृशो भवेत् नान्यथा । अथ च -त्वद्वर्णनविधौ यस्माच्चातुरीं प्राप्नोति तस्मादेव हेतोश्चतुराण्यास्यानि यस्येति चतुरास्यो, नतु चत्वार्यास्यानि यस्येति विग्रहेण चतुरास्यः। आस्यानां चतुष्ट्वे सत्यपि तत्रार्थे गौरवाभावात्, अत्र तु गौरवसद्भावात्तथैवोच्यत इत्यर्थः । त्वदीयस्तुतिपरत्वाद्ब्रह्मणो लोकत्रयेऽप्येवं कीर्तिरजनीति भावः । तथा-शर्वो हरस्त्वयि बुद्ध एवाशेषविदि सर्वज्ञे जाग्रति सति सर्वविदं सर्वज्ञमात्मानं ब्रूते स सर्वविद्बृवस्तत्तयेव परगुणस्यात्मन्यारोपणेन हेतुना कलङ्केन शितिकण्ठो नीलकण्ठः, नतु कालकूटभक्षणेन नीलकण्ठः । त्वत्स्पर्धितया लोकत्रयेपि महेशस्यैवमयशो जातमित्यर्थः । ब्रह्ममहेशाभ्यामपि त्वमेव परमपुरुषः । सर्वज्ञ इति भावः । अन्यस्याप्यात्मस्तुत्या सर्वसंनिधौ लज्जया मालिन्यं भवति । सर्वविद्बृवेति विदुषिब्रुवेतिवत् ॥

 श्लोकद्वयेन कल्किनं स्तौति-

धूमवल्कलयता युधि कालं म्लेच्छ कल्पशिखिना करवालम्।
कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण ॥ ९२ ॥

 धूमवदिति ॥ त्वं धूमवत् कालं करवालं खड्गं युधि म्लेच्छैः सह युद्धे कलयता धारयता, मृत्युरूपं खड्गंधूममिव धारयता वा, अत एवम्लेच्छानां कल्पशिखिना प्रलयकालानलरूपेण, म्लेच्छा इव म्लेच्छाः पापिनस्तेषां वा, म्लेच्छप्रायाणां वा, एवंभूतेन कल्किसंशेन दशमावतरेण कृत्वा मम दशतयं दशावयवं कल्कं पापं व्युदस्य निराकुरु समूलमुन्मूलयेत्यर्थः । अथच-यः स्वयं कल्की, सोऽन्यकल्कं विनाशयतीति विरोधः । कल्किशब्दस्य विष्णुनामत्वात्परिहारः । म्लेच्छकल्पशिखिनेत्यवतारप्रयोजनमुक्तम् । अदत्तस्य वस्तुनः स्वयं ग्रहणम् , यागीयातिरिक्ता हिंसा, परस्त्रीगमनं च, त्रिविधं कायिकम् । पारुष्यम्, अनृतम्, पैशुन्यम्, असंबद्धप्रलापश्चेति चतुर्विधं वाचिकम् । परद्रव्यग्रहणेच्छा, परानिष्टचिन्ता, वृथैव परेषु दोषाभिध्यानं, चेति त्रिविधं मानसम् ।