प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया। |
प्रियस्येति ॥ प्रियस्य तत्संभोगप्रातिकूल्यलक्षणमप्रियमारभ्य कृत्वा तद्वशादेवान्तर्हृदये दूनयोपतप्तया । प्राप्तपश्चात्तापयेति यावत् । द्वारबहिर्देशं प्राप्तयाऽप्यनया प्रियस्यानभीप्सिताचरणानन्तरं तस्य प्रसादमकृत्वैव सखीः प्रति गन्तुमयुक्तमिति विचार्यालीभ्यः सखीः प्रति गन्तुं न शेके समर्थीभूतम् । तत्रैव तस्थावित्यर्थः। सखीभ्यः सकाशान्निवर्तितुं नलं प्रति परावर्तितुमपि न शेके । यतः-शालीनयाऽधृष्टयाऽतिसलज्जया अस्मदुद्देशेनागतापि सुरतार्थं प्रियं प्रति पुनर्गतेति सख्यो वदिष्यन्ति, तथा च लज्जा स्यादिति भिया पुनर्न निवृत्तेत्यर्थः । नलविषयैव वा लज्जा क्षणमात्रं मार्गमध्ये चिन्तावशात्तूष्णीं स्थितेति भावः । आलीभ्यः 'गत्यर्थकर्मणि-' इति चतुर्थी, निवृत्तिं प्रत्यपादानत्वात्पञ्चमी च ॥
अचकथदथ बन्दिसुन्दरी द्वाः सविधमुपेत्य नलाय मध्यमह्नः। |
अचकथदिति ॥ अथ परिहासपूर्वं भैमीबहिर्निर्गमनानन्तरं पुरुषस्यान्तः प्रवेष्टुमशक्तत्वादवसरज्ञापकवचनस्यावश्यंश्रावणीयत्वाद्बन्दिसुन्दरी विदग्धमागधवनिता द्वा:सविधं द्वारदेशसमीपमुपेत्य इति अह्णो मध्यं मध्याह्नमचकथत् । व्यज्ञापयदित्यर्थः । इति किम्-हे नृप, जय सर्वोत्कर्षेण वर्तस्व। दिनस्य यौवनं मध्याह्नस्तत्संबन्धिनोष्मणा तप्ता आतपसंतापेन कृत्वा संतापवती क्षितिस्ते आप्लवनजलानि माध्याह्निकस्नानजलानि पिपासति पातुमिच्छति । अचकथत्, ण्यन्ताच्चङ् । अकथयदिति पाठे-लङ् । नलाय 'क्रियया यमभिप्रैति-' इति संप्रदानत्वम् ॥
उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् । |
उपेति ॥ अधिगङ्गं गङ्गामधिकृत्य वर्तमानमुपहृतं भागीरथ्याः सकाशादानीतं कम्बुच्छवि शङ्खधवलमम्बु तव कृष्णतरकुटिलकेशपाशस्य भङ्गिभिः कुटिलभावैः सह सङ्गात्संबन्धादनन्तरं संबन्धे जाते तरङ्गैः कृत्वाऽसमा अतुल्यरूपा विषमा वाऽतिकृष्णा शमनस्वसा यमभगिनी यमुना तया सह मिश्रभावेन मिलितत्वेन संगमे या शोभा तां गङ्गायमुनासंभूतप्रयागकामनीयकमनुभवितुं प्राप्तुं वाञ्छति । शुभ्रतरजलस्य कृष्णतरकेशपाशसङ्गे सति प्रयागजलशोभा भविष्यतीति गङ्गाजलेच्छां पूरय माध्याह्निकस्नानं कुर्विति भावः । अधिगङ्गम् , विभक्त्यर्थेऽव्ययी[१]भावः ॥
तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः । |
- ↑ 'निदर्शनालंकारः' इति जीवातुः।