पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१६
नैषधीयचरिते

इत्यधीरतया तस्य हठवृत्तिविशङ्किनी ।
झटित्युत्थाय सोत्कण्ठमसावन्वसरत्सखीः ॥ १५३ ॥

 इतीति ॥ इत्येवं वदनादिविलोकनपूर्वं जघने चिरकालं सादरदृष्टिस्थापनद्वाराऽधीरतया रतौत्सुकतया हठवृत्तौ बलात्सुरतारम्भे विशङ्किनी विशेषतः शङ्कमाना संभावयन्ती असौ झटिति मञ्चादुत्थाय चिरनिर्गतसखीगवेषणाय सोत्कण्ठं यथातथा कलाद्याः सखीरन्वसरत् । सख्यनुसरणोत्कण्ठाव्याजेन प्रियसुरतारम्भं पर्यहार्षीदिति भावः । अतितरां रसपरवशता दोषाय, रसत्यागश्च नायकस्य नीरसतामेवापादयतीति तदुभयपरिजिहीर्षया रसान्तरद्वारेण संभोगशृङ्गारं परां काष्ठां प्रापयितुं श्रीहर्षेण भैमीनलयोर्भिन्नदेशावस्थायित्वकथनोपक्रमः कृतः॥

न्यवारीव यथाशक्ति स्पन्दं मन्दं वितन्वता ।
भैमीकुचनितम्बेन नलसंभोगलोभिना ॥१५४ ॥

 न्यवारीति ॥ नलसंभोगलोभिना भैमीकुचनितम्बेन मन्दं शनैः स्पन्दं गमनं वितन्वता स्वीयपीवरतातिशयेन शीघ्रं गन्तुमददता सता भैमी शक्तिमनतिक्रम्य शीघ्रगमनप्रतिबन्धकत्वरूपनिजशक्त्यनुसारेणेतो रतिगृहाद्बहिस्त्वया न निर्गन्तव्यमिति न्यवारीव न्यषेधीव । निर्गतापि स्तननितम्बभराक्रान्तत्वाच्छीघ्रं गन्तुं न शशाकेति भावः । कुचनितम्बेन, प्राण्यङ्गत्वादेकवद्भावः । लोभिना, अत इनिः॥

अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥ १५५॥

 अपीति ॥ स श्रोणिभरेण नितम्बभाराक्रान्तत्वेन स्वैरां मन्दगामिनीमपि समीपे गच्छन्तीमपि तां स्वयं गजबन्धनस्तम्भवदूरू दीर्घौ पीवरौ च दोषौ बाहू यस्यैवंभूतोपि सन्नङ्कपाल्या धर्तुं नाशकत् । यतः-तस्या अङ्गसङ्गाज्जघनाद्यङ्गस्पर्शाज्जातो निष्क्रियत्वरूपसात्त्विकभावः स्तम्भो यस्य सः । सात्त्विकस्तम्भवशात्तां धर्तुं नाशकदित्यर्थः । भरास्वैरामिति पाठे-श्रोणिभरनिमित्तमस्वैरा स्वाधीना न भवति तदधीनैव तादृशीमित्यर्थः॥

आलिङ्ग्यालिङ्ग्य तन्वङ्गि मामित्यर्धगिरं प्रियम् ।
स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ ॥ १५६ ॥

 आलिङ्ग्येति ॥ असौ भैमी इति पूर्वोक्तप्रकारेणार्धगिरं वाक्यशेषं वक्तुमसमर्थं प्रियं नलं स्मित्वाऽधीरतरत्वेन हसित्वा निवृत्य परावृत्य वलितग्रीवं पश्यन्ती सती द्वारस्य पारं देहलीबहिःप्रदेशमगात् । इति किम्-हे तन्वङ्गि, प्रियं मामालिङ्ग्यालिङ्ग्या (ङ्ग्येत्यर्धाs)परिपूर्णा वाणी यस्य तमित्यर्थः । कामोन्मादबाहुल्येन गद्गदभिन्नस्वरतया आलिङ्ग्यालिङ्ग्य मां सुखय पश्चाद्गच्छेति वाक्यशेषः । स्मितादयः संभोगशृङ्गाररसाङ्गीभूततयाऽलकाराः॥