पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

 तपतीति ॥ हे राजन् , अद्भुतोऽसह्यः प्रकृष्टस्तापः करोष्ण्यं यस्य स रविरधुना मध्याह्नसमये जगत एव विश्वस्यापि मूर्ध्नि भूत्वा तपति । क इव-त्वमिव । यथाऽद्भुतः प्रतापः क्षात्रं तेजो यस्य स त्वं विश्वस्य मूर्ध्नि चरणमारोप्य तपसि राजलक्ष्म्या दीप्यसे तथेत्यर्थः । मध्याह्नसमयो निश्चितो वर्तत इत्यर्थः । अत एव पुरमथनं हरमुपास्याराध्योपार्जितैरिति शेषः । एवंभूतैस्त्वदीयैः पुण्यदेवपूजानन्तरं त्वमेनं सूर्यमधरितं मस्तकोपरिभागाच्च्यावितं तिर्यग्गगनभागे वर्तमानमेनं सूर्यं पश्य । देवपूजानन्तरं हि सूर्यो नमस्क्रियत इत्याचारात्त्वमप्यपराह्ने सूर्यं नमस्कुर्विति भावः । अधुना तु त्वत्सदृशः, हरपूजाजनितपुण्यैस्त्वया जितोऽधोगतो भविष्यतीत्यर्थः ॥

आनन्दं हठमाहरन्निव हरध्यानार्चनादिक्षण-
 स्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः ।
पक्षद्वारदिशं प्रति प्रतिमुहुर्द्राग्निर्गतप्रेयसी-
 प्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् ॥१६१

 आनन्दमिति ॥ असौ भूपतिः स्नानाद्यर्थं बहिर्निर्गन्तुं शय्यायाः सकाशादुत्तस्थिवान् । किंभूतः-द्राक् झटिति बहिर्निगतायाः प्रेयस्या भैम्याः प्रत्यासत्तिधिया परावृत्त्यागमनस्य बुद्ध्या पुनरप्यागमिष्यति किमिति संभावनया तद्विलोकनार्थं पक्षद्वारदिशं पार्श्वद्वारप्रदेशं प्रति लक्षीकृत्य प्रतिमुहुर्मुहुर्मुहुर्दृशं दिशन् ददानः। तथा-प्रियतमाया विच्छेदो वियोगस्तज्जन्येन खेदेन दुःखेनालसोऽपि । तथा-हरध्यानार्चनादेः क्षणस्य मध्याह्नस्यासत्तावतिनैकट्ये सत्यामपि हठं यथा स्यादेवं बलात्कारेण गतमप्यानन्दमाहरन्निव परावर्तयन्निव । अर्चनादिरेव क्षण उत्सवस्तदासत्तावपीति वा । विरहखेदायासे सत्यपि नित्याह्निककाललोपभिया शिवभक्त्या च सानन्दं बलाद्बहिर्निर्गत इत्यर्थः । श्लोकचतुष्टयेनोत्तरसर्गसंगतिः सूचितेति ज्ञेयम् । प्रतिमुहुर्, मुहुरित्यर्थे प्रतेर्मुहुःशब्देन 'सह सुपा' इति समासः। मुहुर्मुहुरित्यर्थः ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महा-
 काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः॥१६२॥

 श्रीहर्षमिति ॥ अन्यैः श्रीहर्षव्यतिरिक्तैः कविभिरक्षुण्णा रसस्य शृङ्गारादेः प्रमेयस्य समासोक्त्युत्प्रेक्षादेश्च भणितिर्गुम्फना यत्र तादृशेऽपूर्वरसादिमति महाकाव्ये विंशःसर्गो विंशतेः पूरणः व्यगलत्समाप्तिमितः । भणितौ, भाषितपुंस्कम् । पूरणे डटि 'ति विंशतेः-' इति तिलोपः॥

इति श्रीबेदरकरोपनामकश्श्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे विंशः सर्गः॥