पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०५
षोडशः सर्गः।

अभिनवदमयन्तीकान्तिजालावलोक-
 प्रवणपुरपुरन्ध्रीवक्रचन्द्रान्वयेन ।
निखिलनगरसौधाट्टावलीचन्द्रशालाः
 क्षणमिव निजसंज्ञां सान्वयामन्वभूवन् ॥ १२७ ॥

 अभीति॥ निखिलानां नगरसंबन्धिनां सौधानां सुधाधवलितगृहाणामट्टावल्य उपरितनगृहविशेषप ङ्क्त्यस्तासामप्युपरि चन्द्रशालास्तृतीयशिरोगृहाः । अट्टावलीनां गवाक्षविवराणि वा । ता अभिनवा नवोढा दमयन्ती तस्याः कान्तिजालस्यादृष्टपूर्वस्यावलोके प्रवणानामुत्सुकानां पुरपुरन्ध्रीणां वक्रचन्द्रस्यान्वयेन संबन्धेन कृत्वा क्षणमिव क्षणमानं यावत्तन्मुखसंबन्धस्तावत्पर्यन्तं निजसंज्ञा स्वीयं नाम मुखचन्द्रसंबन्धतया सान्वया चन्द्रयुक्ताः शाला गृहाणि चन्द्रशालाः, चन्द्राणां वा संबन्धिन्यः शालाः (इति) योगसहितामन्वभूवन् । सान्वयामिवेति वोत्प्रेक्षा । सर्वा अपि.पुरनार्यो गवाक्षविवरैर्भैमीमपश्यन् । तानि च तन्मुखचन्द्रसंबन्धेन यौगिकत्वेन कविनोत्प्रेक्षितानि ।

निषधनृपमुखेन्दुश्रीसुधां सौधवाता-
 यनविवरगरश्मिश्रेणिनालोपनीताम् ।
पपुरसमपिपासापांसुलवोत्परागा-
 ण्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि ॥ १२८ ॥

 निषधेति ॥ अखिलानां सकलानां पुरपुरन्ध्रीणां नगरस्त्रीणां नेत्राण्येव नीलोत्पलानि निषधनृपस्य मुखेन्दुश्रीस्तल्लक्षणां सुधाममृतं पपुःसादरमालोकन्त । किंभूतां सुधाम्सौधवातायनानां विवरेभ्यश्छिद्रेभ्यो गच्छन्त्यो बहिनिर्गच्छन्त्यो रश्मिश्रेणयो नयनकिरणपङ्क्त्यस्तद्रूपा ये नाला बिसयुक्तत्वादल्पजलपानसाधनभूताः कमलनालदण्डास्तैरु- पनीतां नेत्रसमीपं प्रापिताम् । किंभूतानि नीलोत्पलानि-असमयातुल्ययाऽतिभूयस्था पिपासया पानेच्छया पांसुलत्वं शुष्कत्वं सोत्कण्ठतरत्वं च तेनैवोत्कृष्टा उत्पतन्तो वा परागाः कौसुमरजांसि येषु तानि । गवाक्षविवरैः कृत्वा नलमुखशोभां सर्वा अपि सादरं ददृशुरित्यर्थः । कुमारीणां समीपगत्या, पौरस्त्रीणां च गवाक्षान्तर्गत्या, कौतुकमात्रेण दृष्टेरार्जवेन कनीनिकानीलरश्मीनां नालारूपाणामुचिततरत्वमुक्तम् । अन्योपि पिपासात्यन्तशुष्ककण्ठो दूरस्थं कूपाद्युदकं सच्छिद्रकमलनालादिना पिबति । नत्वेकवारमेव बहु पिबत्यन्तहृदयपीडाभिया ॥

अवनि[१]पतिपथाट्टस्त्रैणपाणिप्रवाल-
 स्खलितसुरभिला[२]जव्याजभाजः प्रतीच्छन् ।


  1. अवनिपतिरथोर्वस्त्रैण-' इति पाठो जीवातुसंमतः ।
  2. 'लाजव्रात-' इति, 'लाजभ्राज-' इति, 'लाजब्राज -' इति, च पाठः सुखावबोधासंमतः ।