पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

उपरि कुसुमवृष्टीरेष वैमानिकाना-
 मभिनवकृतभैमीसौधभूमि विवेश ॥ १२९

 अवनीति ॥ एष नलोऽभिनवकृतस्य नूतननिर्मितस्य भैमीसंबन्धिनः सौधस्य शान्तिहोमाद्यलंकृतां भूमिमुपरितनीं वा भूमिं विवेश । किं कुर्वन्-कौतुकविलोकनार्थं गगने स्थितानां वैमानिकानां देवानां कुसुमवृष्टीरुपरि शिरस्यादरेण प्रतीच्छन्स्वीकुर्वन् । किंभूता वृष्टीः-अवनीपतिपथे राजमार्गेऽट्टेषु विपणिस्थेष्वट्टालकेषु वर्तमानानां स्त्रैणानां स्त्रीवृन्दानां पाणिप्रवालेभ्यः स्खलिताः सुरभयः पङ्कजपरिमलविशेषयुक्ता लाजास्तेषां व्याजं मिषं भजन्ति । शकुनार्थं विकीर्यमाणानां लाजानां शुभ्रत्वादूर्ध्वदेशस्त्रंसनाञ्च पुष्पवृष्टित्वम् । ता अपि पल्लवेभ्यो निर्गच्छन्ति । वैमानिकाः, चरत्यर्थे ठक् ॥

इति परिणयमित्थं यानमेकत्र याने
 दरचकितकटाक्षप्रेक्षणं चानयोस्तत् ।
दिवि दिविषदधीशाः कौतुकेनावलोक्य
 प्रणिदधुरिव गन्तुं नाकमानन्दसान्द्राः॥ १३०॥

 इतीति ॥ दिविषदां देवानामधीशा इन्द्रादयश्चत्वारो देवा नाकं स्वर्ग प्रति गन्तुं प्रणिदधुरिव गन्तुमचिन्तयन्निव । तत्त्वतस्तद्विहाय वाञ्छा नास्त्येवेतीवशब्दः सूचयति । किंभूताः-अनयोर्भैमीनलयोरिति पूर्वोक्तप्रकारं परिणयं विवाहमित्थमुक्तरीत्या च एकत्रैकस्मिन्याने रथे यानं स्थित्या गमनम् , तथा-दरचकितमीषत्सभयं सलज्जं यत्कटाक्षैरन्योन्यविलोकनं , तञ्च एतत्सर्वं दिव्याकाशे स्थित्वा कौतुकेनावलोक्यानन्देन परमहर्षेण सान्द्राः पूर्णाः । 'प्रणिदधुरथ-' इति पाठे तयोर्गृहप्रवेशानन्तरमित्यर्थः । स्वयंवरानन्तरमेव देवा निर्गता इति चतुर्दशे सर्गे यद्यप्युक्तं तथापि भूमेनिर्गस्य नलपुरप्रवेशपर्यन्तं नलभैमीकौतुकविलोकनार्थं गगनेस्थिता इति दिविपदेन सूचितम् । इदानीं पुनः स्वर्गं प्रति निर्गता इत्युक्तेर्न कोपि विरोधः । किंचानन्तरसर्गसंगत्यै कलिनलद्वेषारम्भस्याप्रस्तुततां परिहर्तुं नलः पुरं प्रविष्टः, देवाश्च स्वर्ग जग्मुः। गच्छतां च तेषां मध्येमार्गे कलेरुत्तरप्रत्युत्तरदानादिप्रसक्तानुप्रसक्त्यवतरणाय युक्तमुक्तम् ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महा-
 काव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः ॥ १६ ॥

 श्रीहर्षमिति ॥ पूर्वार्धः पूर्ववत् । किंभूते काव्ये-चतुर्दशतयीं विद्यां विदद्भिर्जान-