पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०३
षोडशः सर्गः।

विलोकनम् , दन्तिवद्धस्तिवच्चारो गतिः, तयोर्भुवा स्थानभूतया हरिणाक्ष्या गजगत्या च । तथा-कृता भर्तुः पादसेवा यया । कया क इव-निजोपत्यकथा पर्वतासन्नभूम्या महीभृत्पर्वत इव । बहुभिर्गौरिकादिधातुभिर्मण्डितः । किंभूतयोपत्यकया-हरिणानामीक्षणस्य, हस्तिनां अक्षणस्य गमनस्य वा स्थानभूतथा । तथा-कृता प्रत्यन्तपर्वतानां सेवा आश्रयणं यया । कृता प्रत्यन्तपर्वतैः सेवा यस्या इति वा ।

तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया।
विहाय सापल्यमरञ्जि भीमजा समग्रतद्वाञ्छितपूर्तिवृत्तिभिः॥१२१॥

 तदिति ॥ चिरोढया चिरकालं ध्रियमाणया । अथ च--चिरपरिणीतया । श्रिया राज्यलक्ष्म्या तदेकतानस्य तदेकनिष्ठस्य भैमीतत्परस्य नृपस्यात्मनि स्वविषये भावमनुरागं रक्षितुं स्थिरीकर्तुमिव सापत्न्यमेकभर्तृकस्त्रीद्वयान्योन्येां विहाय समग्राणां तस्या भैम्या वाञ्छितानां पदार्थानां पूर्तिः पूरणं तस्यां वृत्तिभिर्वतनैरुपायैः कृत्वा भीमजारञ्जि प्रीणिता । संपद्वैभवेन दुर्लभान्यपि तद्वाञ्छितानि नलेन पूरितानि, ततश्च सा परितुष्टेति भावः । अन्यापि चिरपरिणीता विदुषी नवोढायामनुरक्तस्वामिन आत्मन्यनुरागरक्षणार्थं सापत्न्यं त्यक्त्वात्मनो ज्यैष्ठ्यं रक्षयन्ती सती नवोढाया हितकरणेन प्रीतिं जनयति॥

मसारमालावलितोरणां पुरं निजाद्वियोगादिव लम्बितालकाम् ।
ददर्श पश्यामिव नैषधः प्रि[१]यामथाश्रितोद्ग्रीविकमुन्नतैर्गृहैः॥१२२॥

 मसारेति ॥ अथ बहुमार्गलङ्घनानन्तरं नैषधः पुरं प्रियामिव ददर्श । किंभूतां पुरम्-मसारमालावलिरिन्द्रनीलमालापरम्परा एवाम्रदलादिरचितमालारूपाणि तोरणानि यस्याम् । इन्द्रनीलमालावलियुक्तानि तोरणानि बहिर्द्वाराणि यस्यास्ताम् । त- था-अत एव-निजाद्वियोगाल्लम्बितालकामिवाप्रसाधितचूर्णकुन्तलामिव । तथाउन्नतैरत्युच्चैर्गुहैः कृत्वा आश्रिताङ्गीकृता उद्ग्रीविकारूर्ध्वीकृतकण्ठतया विलोकनं यथा स्यादेवं पश्यामिव विलोकिकामिव । उच्चगृहत्वाद्दूरत एव दृष्टवानित्यर्थः । 'पथाम्' इति पाठे मार्गाणां पश्यामिव । अन्यापि नायिका प्रोषिते नायकेऽप्रसाधितालका सती उनीविकया प्रियागमनमार्गान्पश्यति । मसाराणां नीलत्वादलकत्वम् । पथामिति 'कर्तृकर्मणोः-' इति कर्मणि षष्टी ।

पुरीनिरीक्षान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः ।
ययौ कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् ॥१२३॥

 पुरीति ॥ अयं मत्प्रियो मनाक् ईषत्पुरीनिरीक्षणया अन्यमना दुश्चित्त इति हेतोर- स्मिन्नवसरेऽयं समयङ्मिरीक्षितुं शक्यत इति बुद्ध्या भैम्या प्रियाय प्रियं वीक्षितुं निभृतं


  1. 'प्रियाम्' इति पाठः कुत्रापि नोपलब्धः । तथापि 'पथामिति पाठे' इति, 'प्रियामिव' इति च टीकावगतत्वात्स्थापितः।