पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०२
नैषधीयचरिते

पितात्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः ।
अतः परं पुत्रि न कोपि तेहमित्युदसुरेष व्यसृजन्निजौरसीम् ॥ ११८॥

 पितेति ॥ इत्युक्त्वा उद्गतान्यस्त्रूणि यस्य स एष भीमो निजामौरसीं स्वीयक्षेत्रवीजा भ्यामुत्पादितां भैमीं व्यसृजत्प्राहिणोत् । इति किम्-हे पुत्रि । आत्मनस्तव पुण्यं धर्म एव पिता हितकारित्वात् , अहितनिवारकत्वाञ्च।तथा-तव क्षमाः सहनशक्तयोऽनापदोन विद्यन्त आपदो याभ्यस्ताः। आपन्नाशिका इत्यर्थः। तव मनसस्तुष्टिः संतोषोऽलुब्धत्वमेव धनम् । अथानन्तरमखिलमपि तवेष्टं नल एव । किं बहुनातदतिरिक्तसकलाभीष्टदत्वात्सर्वं नल एवेत्यर्थः । अतः परमद्यतनदिनप्रभृत्यहं भीमस्ते कोपि सं- बन्धी बान्धवो न भवामीति ॥

प्रियः प्रियकाचरणाच्चिरेण तां पितुः स्मरन्तीमचिकित्सदाधिषु ।
तथास्त तन्मातृवियोगवाडवः स तु प्रियप्रेममहाम्बुधावपि ॥ ११९ ॥

 प्रिय इति ॥ प्रीणाति हर्षं जनयति प्रियो नलः पितुः स्मरन्तीं तां भैमीं प्रियस्य मनीषितस्य एकस्य वस्तुन आचरणात्करणान्मनीषितस्य यदेकं मुख्यं केवलं वा करणं तस्मादाधिषु पितृवियोगजमानसपीडासु सत्सु चिरेण बहुना कालेनाचिकित्सदुपचचार । कस्यचिदिष्टस्य मेलनात्पितृवियोगजन्यदुःखं चिरेणात्याजयदित्यर्थः । चिरकालं पितुः स्मरन्तीमिति वा । स सर्वजनप्रसिद्धस्तस्या मातृवियोग एवासह्यतरत्वाद्वाडवो वडवानलः । तु पुनः प्रियस्य नलस्य प्रेमा निरुपाधिकः स्नेहस्तद्रूपे महाम्बुधौ सत्यपि तथापच्युतप्राच्यरूप एवास्त स्थितवान् । तस्मिन्नतिप्रियं कुर्वत्यपि स स्तोकमपि न शान्त इत्यर्थः । पितृवियोगदुःखान्मातृवियोगस्य गौरवं सूचितम् । विशेषतश्च कन्यानाम् । अपिरौचित्ये । जलानलयोविरोधेऽपि वाडवस्याम्बुधावेव स्थितियुक्तेत्यर्थः । शशाम (तृतीयचरणे), 'न तु प्रिय-' इत्यपि च पाठौ स्पष्टार्थौ । पितुः 'अधीगर्थ-' इति षष्ठी। अचिकित्सत् । 'कित निवासे रोगापनयने च' इत्यस्मात् गुप्तिजिकद्भ्यः-'इति रुक्प्रतीकारे स्वार्थे सन् कितेश्चोदात्तेत्सु पाठात् सन्नन्तादपि परस्मैपदमेव, नत्वात्मनेपदमिति सि[१]द्धान्तः॥

असौ महीभृह्बहुधातुमण्डितस्तया निजोपत्यकयेव कामपि ।
भुवा कुरङ्गेक्षणदन्ति चारयोर्बभार शोभां कृतपादसेवया ॥१२० ॥

 असाविति ॥ असौ भूभृन्नलस्तु पुनर्बहुधानेकप्रकारं मण्डितो नानारत्नादिभिरलंकृतस्तया भैम्या कामप्यतिशयितां शोभां बभार । किंभूतया-कुरङ्गवद्धरिणवदीक्षणं


  1. तथाच 'अन्योन्याभावसंसर्गाभावभेदव्यस्थितौ । सत्या स्यात्तव्यवस्थेति स्वाश्रयं कश्चिकित्सतु' इति श्री- हर्षमिश्रीयखण्डनस्थपद्यव्याख्यानावसरे खण्डनप्रकाशे-'चिकित्सताम्' इति युक्तः पाठः । कितिधातो: के- वलस्याप्रयोगात् 'अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति' इति न्यायादनुदात्तेत्वादात्मनेपदप्राप्तेः-इति यद्वर्धमानमिश्रैरुक्तम् । तच्चिन्त्यमेव-इति सुखावबोधा।