पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३४
नैषधीयचरिते

वा । सत्य आनतैर्मुखैः सहकारशाखिन आम्रवृक्षस्य शिखां वपाभरेण जनितां म्लानिं वैवर्ण्यकालिमानमिवावाक्षुर्वहन्ति स्म । पराजितोपि ह्रीभरेण नम्रमुखो वारिहारितां प्रापितः सन् म्लानिं धत्ते । कलशीमुखे माङ्गलिकाभूतपल्लवा निक्षिप्यन्त इत्याचारः। अवाक्षुः। 'वह प्रापणे' [१]लुङि ॥

असौ मुहुर्जातजलाभिषेचना क्रमाद्दुकूलेन सितांशुनोज्वला ।
[२]द्वयस्य वर्षाशरदां तदातनीं सनाभितां साधु बबन्ध संध्यया ॥२१॥

असाविति ॥ मुहुर्जातं जलाभिषेचनं यस्या असौ भैमी क्रमात्सितांशुना सिततन्तुना दुकूलेन क्षौमाम्बरेणोज्वलिता भूषिता सती वर्षाश्च शरदश्च तासां द्वयस्य संध्यया संधिना तदातनीं तदाभवां तात्कालिकीं सनाभितां तुल्यतां साधु सम्यक् बबन्ध दधौ । वर्षाश्च कृतजलाभिषेकाः, शरच्च शी(सि)तांशुना चन्द्रेणोज्वला, द्वयोः संधिरुभयगुणोपेतः । वस्त्रपरिधानात्पूर्वं प्रावृट्सदृशी, अनन्तरं शरत्सदृशी जातेत्यर्थः ।

[३]पुरा प्रभिन्नाम्बुददुर्दिनीकृतां निनिन्द चन्द्रद्युतिसुन्दरीं दिवम् ।
शिरोरुहौघेण घनेन वर्षता क्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥२२॥

क्वचित्-पुरा-इति श्लोकः । सा दिवं निनिन्द । तत्तुल्या जातेत्यर्थः । किंभूताम्-पुरा वर्षासु प्रभिन्नैरतिधनैः । क्षरद्भिर्वा । अम्बुदैर्दुर्दिनीकृतां जलप्लाविताम् । अनन्तरं शरदारम्भे चन्द्रद्युतिसुन्दरीम् । किंभूता-क्वचिद्वर्षता शिरोरुहौघेण केशपाश- रूपेण धनेन मेघेनोपलक्षिता । तथा -दुकूलेनैव सितांशुना चन्द्रेणोज्जवला । जलाभिषेकस्थानेऽम्बुदक्षरणम् । चन्द्रचन्द्रिकास्थाने दुकूलम् ॥

विरेजिरे तच्चिकुरोत्कराः किराः क्षणं गलन्निर्मलवारिविप्रुषाम् ।
तमःसुहृच्चामरनिर्जयार्जिताः सिता वमन्तः खलु कीर्तिमुक्तिकाः॥

 विरेजिर इति।तस्याश्चिकुरोत्कराः केशसङ्घा विरेजिरे । किंभूताः-गलतां निर्मलानां वारिविप्रुषामुबिन्दूनां क्षणं किरन्ति किरा विक्षेपकाः। उद्विन्दून्मुञ्चन्त इत्यर्थः । किंभूता इव-तमसः सुहृन्दि सदृशान्यतिश्यामानि चामराणि तेषां निर्जयेनार्जिताः स्वीकृत्य संगृहीताः सिताः शुभ्राः कीर्तिरूपा मुक्तिका वमन्तः खलु । इवाथै खलुशब्दः। कृष्णचामरादप्यतिसुन्दरस्तत्केशपाश इति भावः । विप्नुषाम् , कर्मणि षष्ठी ॥

म्रदीयसा स्नानजलस्य वाससा प्रमार्जनेनाधिकमुज्ज्वलीकृताः ।
अदभ्रमभ्राजत साश्मशाणनात्मकाशरोचिःप्रतिमेव हेमजा॥२४॥


  1. अत्र 'दास्यादिव' इति हेतूत्प्रेक्षा । 'म्लानिमिव' इति गुणस्वरूपोत्प्रेक्षा । तयोरङ्गाङ्गिभावेन सजातीयसंकर:-इति जीवातुः
  2. सुखावबोधायाम्-अस्य स्थाने 'पुरा प्रभिन्नाम्बुद-' इत्यर्थे व्याख्यातम् ॥
    इदं तु श्लोकान्तरे 'शिरोरुहोघेण-' इति पूवार्धोत्तरमुत्तरार्धतया व्याख्यातम् ।
  3. ‘असौ' इति जीवातौ
    व्याख्यातम् ।