पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३५
पञ्चदशः सर्गः।

 म्रदीयसेति ॥ सा भैमी अदभ्रमधिकमभ्राजताशोभत । किंभूता सा-स्नानजलस्य प्रमार्जनेन प्रोञ्छनकारिणाम्रदीयसा कोमलतरेण वाससा कर्तृणा । स्नानजलस्य प्रमार्जनेन करणेन वा । पूर्वापेक्षयाऽधिकं यथा तथा उज्जवलीकृता । केव-अश्मशाणनात् शिलोत्तेजनाद्धेतोः प्रकाशं पूर्वापेक्षयाऽतिदीप्रं रोचिर्दीप्तिर्यस्याः सा हेमजा सौवर्णी देवादीनां प्रतिमेव । शिलाघर्षणात् 'ओपिता' इति सुवर्णकारपरिभाषा । प्रमार्जनेन, प्रथमपक्षे नन्द्यादित्वात्कर्तरि ल्युः। द्वितीयपक्षे भावे ल्युट् । 'शाण तेजने' भौवादिकस्तस्मालृयुट् ॥

तदा तदङ्गस्य बिभर्ति विभ्रमं विलेपनामोदमुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि ॥२५॥

 तदेति ॥ सुवर्णं दरमीषत्स्फुटद्विकसत्काञ्चनकेतकीदलं तस्मात्सौरभं सौगन्ध्यं यदि अभ्यस्यति शिक्षते, तदा तर्हि तदङ्गस्य भैमीशरीरस्य विभ्रमं विलासं विशिष्टां भ्रान्तिं वा बिभर्ति । किंभूतस्य-विलेपनस्य यक्षकर्दमादेरङ्गरागेणाऽमोदं मुञ्चति तस्य । तथा-स्फुरन्ती रुग् दीप्तिर्यस्य स्वाभाविकगौरकान्तिनः। अभ्यङ्गानन्तरमङ्गरागः कृत इति भावः । 'यदि तर्हि' इति संबन्धात् 'अभ्यस्यति बिभर्ति' इति लिङर्थे लट् । क्रियानिष्पत्तिस्तु न विवक्षणीया ॥

अवापितायाः शुचिवेदिकान्तरं कलासु तस्याः सकलासु पण्डिताः ।
क्षणेन सख्यश्चिरशिक्षणैः स्फुटं प्रतिप्रतीकं प्रतिकर्म निर्ममुः ॥२६॥

 अवापिताया इति ॥ सकलासु गीतालंकरणादिषु कलासु विद्यासु पण्डिताः कुशलाः सख्यः शुचि गोमयाद्यनुलिप्तं सर्वतोभद्रादिभूषितं वेदिकाया अन्तरं मध्यं शृङ्गारस्थानमवापितायाः प्रापितायास्तस्या भैम्याः प्रतिप्रतीकं प्रत्यवयवं चिरशिक्षणाद्वहुकालाभ्यासात्स्फुटं निरतिशयमतएव क्षणेन प्रतिकर्मालंकरणं निर्ममुश्चक्रुः ॥

विनापि भूषामवधिः श्रियामियं व्यभूषि विज्ञाभिरदर्शि चाधिका।
न भूषयेषाधिचकास्ति किं तु सानयेति कस्यास्तु विचारचानुरी॥२७॥

 विनेति ॥ भूषां मण्डनं विनापि श्रियां कान्तीनामवधिः परमसीमा इयं भैमी विज्ञाभिरलंकारचतुराभिः सखीभिर्व्यभूषि विशेषेणामण्डि । अधिका अनलंकृताङ्गकान्तितोऽधिककान्तिरदर्शि च । परमिति विचारचातुरी एकतरनिश्चयरूपे विचारे प्रावीण्यं कस्य अस्तु, न कस्यापि । इति किम्-एषा भूषया पूर्वापेक्षयाध्यधिकं न चकास्ति । किं तु सा भूषाऽनया भैम्या कृत्वाऽधिकं शोभते । भैम्या भूषणानां च परस्परसंपर्काच्छोभातिशयो दृश्यते । तत्र भूषणैर्भेम्याः शोभातिशयो न जातः किं तु, भैम्या भूषणानामिति विवेकः कस्यापि नाभूदित्यर्थः । पूर्वापेक्षयाधिकं वा शोभते स्मेति भावः। भूषां विनापि श्रियामवधिरियं विज्ञाभिविशेषेण बहुना प्रयासेनाभूषि । पूर्वापेक्षया इयमधिका किमिति तारतम्यज्ञानार्थं पुनः पुनः विलोकिता च । परमियं भूषया ना-