पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३३
पञ्चदशः सर्गः।

 विपञ्चिरिति ॥ वेणुभिर्वंशध्वनिभिर्विपश्चिर्वीणाध्वनिर्न आच्छादि । ते च वेणुध्वनयः प्रणीतं प्रारब्धं गीतं यैर्द्रुतमध्यादिमूर्छनापूर्वमुच्चैर्गायद्भिर्गायकैर्गायकगीतैर्न आच्छादिषतेति सर्वत्र विपरिणामेन व्याख्येयम् । झर्झरैर्झर्झराख्यैः कांस्यमयैर्वाद्यविशेषैर्ध्वनिभिः कृत्वा तेपि गायकध्वनयोऽपि नच नैवाच्छादिषत । हुडुक्केन लघीयसा कांस्यमयवाद्यविशेषेण ते झर्झरध्वनयो नाच्छादिताः । ढक्कया वादित्रविशेषेण सोपि हुडुक्कध्वनिर्नाच्छादि । मर्दलैर्मृदङ्गध्वनिभिः सा ढक्कापि नाच्छादि । ढक्कया तेपि मर्दला अपि नाच्छादिताः। अनपेक्षितगौरवलाघवं वाद्यमात्रं तत्र मिलितं । समथुाततालमाना अपि विपञ्च्यादिध्वनयो वादककौशलात्प्रव्यक्तं भेदेनोपलब्धा इति भावः। विपञ्चयते स्वरोऽस्यां विपश्चिः, औणादिक इन्प्रत्ययः ॥

विचित्रवादित्रनिनादमूर्छितः सुदूरचारी जनतामुखारवः ।
ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिपूरप्रतिनादमेदुरः ॥ १४ ॥

 विचित्रेति ॥ विचित्राणि नानाविधानि वादित्राणि तेषां निनादैर्मूर्छितो वर्धितः। तथा सुतरां दूरचारी दूरसंचरणशीलो जनता जनसङ्घस्तस्य मुखारवो मुखशब्दः पयोधिपूरे समुद्रप्रवाहे प्रतिनादेन प्रतिशब्देन । पयोधिपूरस्य तटे प्रतिशब्दस्तेन वा । मदुरः परिपुष्टः सन् दिगन्तदन्तिनां दिक्प्रान्तवर्तिदिक्पालहस्तिनां कर्णेषु न ममौ तत्कर्णानपि परिपूर्य बहिर्निर्गत इत्यर्थः । नानाजातीयमिश्रणादेकीभूतो जनशब्दो दिगन्तपर्यन्तं समुल्ललासेति भावः। 'स दूर-' इति पाठे सः। अतिमहानित्यर्थः ॥

उदस्य कुम्भीरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे।
यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयांबभूव ॥ १९ ॥

 उदस्येति ॥ अथ सर्ववाद्यवादनानन्तरं पुरंध्रिवर्गः स्त्रीसमयशकुलवृद्धसुवासिनीसमूहश्चतुष्कसंज्ञेन नानावर्णककल्पितस्वस्तिकसर्वतोभद्रादिमण्डनेन चार्वी रमणीया त्विट् कान्तिर्यस्य एवंभूते कूर्मपृष्ठचतुरस्नेहस्तमात्रोच्छ्रितत्वादिसुकल्पिते वेदिकाया उदरे मध्ये शातकुम्भजाः सुवर्णघटिताः कुम्भीरुदस्य उत्क्षिप्य यथाकुलाचारं स्त्रीणां भैम्याश्च कुलाचारानतिक्रमेणाथ मङ्गलं मङ्गलगीतपूर्वं यथा तथा तामवनीन्द्रजां भैमीं स्नपयांबभूव । 'मङ्गलानन्तरारम्भप्रश्नकात्स्नेर्येष्वथो अथ' इति वचनात् एकोऽथशब्द आनन्तर्ये, द्वितीयस्तु मङ्गल इति ञेयम् । 'यथाविधानं नरनाथनन्दनीम्' इति च पाठः। स्नपयांबभूव, मित्त्वादुपधाह्रस्वः॥

विजित्य दास्यादिव वारिहारितामवापितास्तत्कुचयोर्द्वयेन ताः।
शिखामवाक्षुःसहकारशाखिनस्त्रपाभरम्लानिमिवानतैर्मुखैः॥२०॥

 विजित्येति ॥ ताः कुम्भ्यस्तस्या भैम्याः कुचयोर्द्वयेन गौर(व)त्वकाठिन्यादिगुणाति- शयेन विजित्य दास्यादिव वारिहारितां जलवाहित्वमवापिताः प्रापिताः । प्रापिता इव