विष्यन्तीति स्वयमेव संशयं चकार परिजहार चेति भावः । 'अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः' इति निघण्टुः ॥
पक्षान्तरमाह-
किं वा तनोति मयि नैषध एव काय- |
किं वेति ॥ वा पक्षान्तरे असौ प्रत्यक्षदृश्यो नैषध एव कायव्यूह शरीरसमूहं विधाय निर्माय मयि परिहासं प्रतारणक्रीडां तनोति किम् । यतो-विलासी । एकोऽप्यसौ नल एव मयि क्रीडावशात्कायव्यूहं तनोति, नत्वन्ये केचन सन्तीत्यर्थः । 'किं नो तनोति' इति पाठे काकुः । कायव्यूहरचनेऽस्य शक्तिः कथमित्यत आह-विशिष्टस्य ज्ञानस्य, विशिष्टं ज्ञानं यैरेवंविधा ये कलाग्रन्थास्तेषां वा वैभवं बाहुल्यं तद्विभ्रतस्तस्य नलस्य तुरगाशयवेदितेवाश्वहृदयज्ञातृतेव सा कायव्यूहविधानरूपा विद्या किमु न विद्यते । अपितु सापि विद्यत एवेति संभावना । 'विज्ञानवैभवभुवः' इति पाठे भुवः स्थानभूतस्येत्यर्थः । परिहासः, 'उपसर्गस्य घञि-' इति सूत्रे बहुलग्रहणाद्दीर्घाभावः ।
एको नलः किमयमन्यतमः किमैलः |
एक इति ॥ वा पक्षान्तरे । इह एषु पञ्चसु मध्ये अयमेको नलः किम्, अन्यतमो द्वितीय ऐलः पुरूरवाः किम् , अपरस्तृतीयः कामः किम् , शिष्टं द्वयमाश्विनेयावश्विनीकुमारौ किमु, एवमुक्तेषु तेषु पञ्चस्वेवाहं नलमोहं किं न वहे । अपि तु तेष्वेव नलबुद्धिं धारयामि, न तु कायव्यूहरचनादेक एव नलः पञ्चधा जात इत्यर्थः । यतः-रूपधेयभरस्य सौन्दर्यबाहुल्यस्य सीमतया परमकाष्ठात्वेन समेषु सदृशेषु । सादृश्याद्धि मोहो युक्तः । अन्यतमः, 'स्वार्थे तमप्' । सीमशब्दो नान्तः स्त्रीलिङ्गः ॥
पूर्वं मया विरहनिःसहयापि दृष्टः |