पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७४
नैषधीयचरिते

 पूर्वमिति ॥ विरहनिःसहया वियोगविह्वलया मया सोऽयं निषधाधिराजः प्रियः प्राणेश इतस्ततः सर्वासु दिक्षु पूर्वमपि स्वयंवरसमयात्प्रागपि दृष्टः । य इदानीं दृश्यते स मोहवशात्सर्वत्र पूर्वमपि दृष्ट इत्यर्थः । प्रकृते किमित्यत आह-मम इयं भूयः पुनरपि सैव विरहोद्भ्रान्ततारूपा दशा आगतवती किम् । यद्विलसितेन यस्याः सामर्थ्येनालीकानसत्यान्नलान्पश्यामि । अपिः पूर्वमित्यनेन, भूय इत्यनेन वा योजनीयः॥

मुग्धा दधामि कथमित्थमथापशङ्कां
 संक्रन्दनादिकपटः स्फुटमीदृशोऽयम्।
देव्यानयैव रचिता हि तथा तथैषां
 गाथा यथा दिगधिपानपि ताः स्पृशन्ति ॥ ४६॥

 मुग्धेति ॥ अथ पक्षान्तरे । अथवा मुग्धा मोहवशा सत्यहमित्थं 'अस्ति द्विचन्द्र-' इत्याद्यनेकरूपामपशङ्कां दुःशङ्कां कथं दधामि । अपि त्वेतदयुक्तमित्यर्थः । यतः-स्फुटं निश्चितमयमीदृशो नलबाहुल्यज्ञानरूपः संक्रन्दनादीनामिन्द्रादीनां चतुर्णां कपटः । तेषां मायैवैषेत्यर्थः । हि यस्मादनया देव्यैव सरस्वत्यैव एषां पुरोवस्थितानां संबन्धिन्यो गाथाः 'ब्रूमः-'इत्यादिवर्णनश्लोकास्तथा तेन तेन प्रकारेण रचिताः । यथा येन येन प्रकारेण ता गाथा दिगधिपानिन्द्रादीनपि स्पृशन्ति श्लिष्टशक्त्या अभिधावृत्त्या वदन्ति, न केवलं नलमित्यपेरर्थः । तस्मादिन्द्रादिभिरेव मत्प्रतारणार्थं मायया नलरूपं धृतमित्येव बुद्धिर्युक्ता, न तु पूर्वसंशयरूपेत्यर्थः । तथाशब्दस्य द्विरुपादानाद्यथाशब्दोऽपि द्विर्ज्ञातव्यः । 'कपटोऽस्त्री-' इत्यमरः ॥

एतन्मदीयमतिवञ्चकपञ्चकस्थे
 नाथे कथं नु मनुजस्य चकास्तु चिह्नम् ।
लक्ष्माणि तानि किममी न वहन्ति हन्त
 बहिर्मुखा धुतरजस्तनुतामुखानि ॥ ४७ ॥

 एतदिति ॥ एतस्मिन्मदीयाया बुद्धेर्वञ्चके भ्रामके पञ्चके इन्द्रादिसमूहे तन्मध्ये स्थिते नाथे मम प्राणेशे मनुजस्य मनुष्यस्य चिह्नं स्वेदनिमेषरजःस्पर्शम्लानकुसुमत्वादिलिङ्गं कथं नु कथमिव चकास्तु प्रकाशताम् । अपित्विन्द्रादिमायया नलस्थस्यापि चिह्नस्याच्छादितत्वात्तन्न प्रकाशत इति युक्तमित्यर्थः । नलस्य स्वयमवञ्चकत्वेपि 'छत्रिणो गच्छन्ति' इति न्यायाच्चतुर्णामेव वञ्चकत्वेऽपि तत्सिद्धिः।परिहासवशाद्वा नलस्यापि वञ्चकत्वं युक्तम् । एतद्राजसु दृश्यमानं स्वेदादिचिह्नमिति भिन्नपदं वा। हन्त खेदे।अमी बर्हिर्मुखा देवाः धुतं त्यक्तं रजो रेणुस्पर्शो यया एवंभूता तनुर्येषां तेषां भावो धुतरजस्तनुता रेणुसंस्पर्शरहिततनुता मुखं आदिर्येषां तानि स्वेदराहित्याम्लानपुष्पत्वनिर्निमेषत्वादीनि देवत्वव्यञ्जकानि तानि प्रसिद्धानि चिह्नानि किमिति न निवहन्ति धारयन्ति । मयि कृपया तावद्वोढुं युक्तानि परंतु नोह्यन्ते । कष्टमित्यर्थः । बर्हिर्मुखपदं कृपा-