पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८२
नैषधीयचरिते

एकैकमैक्षत मुहुर्महतादरेण
 भेदं विवेद न च पञ्चसु कंचिदेषा।
शङ्काशतं वितरता हरता पुनस्त-
 दुन्मादिनेव मनसेयमिदं तदाह ॥ ४१ ॥
[१]

 एकैकमिति ॥ एषा भैमी महता आदरेण प्रयत्नेन मुहुरेकैकमिन्द्रादीनैक्षतालोकत । विशेषजिज्ञासया पुनःपुनः साभिप्रायं ददर्शेत्यर्थः। अथ च-महता दरेण भयेन पतिव्रतेयं पञ्चापि सादरं कथं पश्यतीत्यविदितसादरावलोकनकारणेभ्यो जनेभ्योऽपवादभयेनेत्यर्थः । परं पञ्चसु मध्ये कंचिदल्पीयांसमपि भेदं विशेषं नच नैव विवेद । अनन्तरं च वक्ष्यमाणप्रकारेण शङ्काशतं वितरता तन्वता, वितीर्य च पुनः तच्छङ्काशतं हरता वक्ष्यमाणप्रकारानेकयुक्तिभिर्नाशयता, मनसेयं भैमी इदं वक्ष्यमाणं बभाषे चेतस्येवावि(व व्य)चारयदित्यर्थः । उत्प्रेक्षते-उन्मादिना इव । उन्मादवानपि भूयसा आदरेण भयेन वा प्रत्येकमीक्षते, तारतम्यं न जानातीति शङ्काशतं च करोति, पुनस्त्यजति, ददाति च पुनरादत्ते च, इत्येवमव्यवस्थितचित्तो भवति । तथेयमप्यव्यवस्थित चित्ताभूदिति भावः । वेद स्मेति पाठे भूते 'लट् स्मे' इति लट् ॥

 तमेव विचारमाह-

अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र
 भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः ।
खच्छोपसपर्णमपि प्रतिमाभिमाने
 भेदभ्रमे पुनरमीषु न मे निमित्तम् ॥ ४२ ॥

 अस्तीति ॥ जनस्य द्विचन्द्रमतिः द्वौ चन्द्राविति बुद्धिः प्रसिद्धास्ति । परं तत्र भ्रान्तौ प्रमाणप्रमितैकत्वे एकस्मिन्नेव चन्द्र विषये योऽनेकत्वप्रत्ययस्तस्मिन्विषये दृगन्तयोर्नेत्रप्रान्तयोर्यच्चिपिटीकरणं अचिपिटयोश्चिपिटयोः करणमङ्गुल्यग्रेण निपीडनं तदादिर्यस्य काचकामलादिदोषस्य स दृगन्तचिपिटीकरणादिदोष आदिः प्रथमो हेतुरस्ति । चन्द्रद्वयभ्रान्तौ चिपिटादिर्हेतुर्युक्तः । तथा–प्रतिमाया आदर्शादौ दृश्यमानस्य मुखादिप्रतिबिम्बस्याभिमानेऽपि प्रतिबिम्बस्फुरणरूपे भ्रान्तिज्ञानेऽपि स्वच्छस्यादर्शादेरुप समीपे यत्समर्पणं प्रापणं दर्पणसंनिधानं तन्निमित्तमस्तीति शेषः। दर्पणादिस्वच्छवस्तुसंनिधानादलीकमपि प्रतिबिम्बं भासत इत्यर्थः । मे मम पुनरमीषु दृश्यमानेषु भेदभ्रमे एकस्मिन्नले विषये यः पञ्चत्वसंख्याविशिष्टो बोधस्तस्मिन्विषये निमित्तं कारणं नास्ति । द्विचन्द्रभ्रान्तौ कारणमस्तीति भ्रान्तिर्युक्ता, एको नलः पञ्चधावभासत इति मदीया भ्रान्तिः कारणाभावान्न युक्ता । तस्मादन्य एवैते केचन भ-


  1. पुराह इति सुखावबोधासंत: पाठः