पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८१
त्रयोदशः सर्गः।

देवानियं निषधराजरुचस्त्यजन्तो
 रूपादरज्यत नले न विदर्भसुभ्रूः।
जन्मान्तराधिगतकर्मविपाकजन्मै-
 वोन्मीलति क्वचन कस्यचनानुरागः ॥३९॥

 देवानिति ॥ इयं विदर्भसुभ्रूः भैमी नले रूपात्सौन्दर्यान्नानुरज्यत नानुरक्ता । नलेऽनुरक्ता, परं रूपाद्धेतोर्नेत्यर्थः । यतो-निषधराजरुचो नलतुल्यकान्तीन्देवानिन्द्रादीन्त्यजन्ती । यदि नले रूपाद्धेतोररङ्क्ष्यत् , तर्हि तुल्यरूपानिन्द्रादीन्नात्यक्ष्यत् , ते तावत्त्यक्तास्तस्मान्नलानुरागे रूपं हेतुर्न भवतीत्यर्थः । तर्हि कथमनुरक्तेत्याशङ्क्याह-जन्मान्तरेऽधिगतं पूर्वकृतं कर्म तस्य यो विपाकः फलजननोन्मुखता तज्जन्मा तदुत्पन्न एव कस्यचन कस्यापि प्राणिनोऽनुरागः क्वचन कस्मिंश्चित्प्राणिन्युन्मीलत्युत्पद्यते । पूर्वकृतकर्मवशादेव कोऽपि कस्मिंश्चित्प्रीतिं बिभर्ति । तथा च पूर्वजन्मकृतसुकृतविशेषादेवानपेक्षितान्यकारणविशेषो नलेऽनुरागस्तस्याः समभूदित्यर्थः । नलनिश्चयाभावेऽपि रूपसाम्ये सत्यपि नल एवानुरक्ततया नलाद्विशिष्टरूपोऽप्यन्यस्तदीयानुरागविषयो नाभूत् , किंतु नल एवेत्यर्थान्तरन्यासतात्पर्यम् । अनुरागजनने उभयोरपि पूर्वकर्मविपाको हेतुर्ज्ञेयः। अरज्यत, श्यन्विकरणाद्रज्यतेर्ञित्त्वा[१]त्कर्त्रभिप्रायक्रियाफलविवक्षायां तङ् ॥

क्व प्राप्यते स पतगः परिपृच्छ्यते यः
 प्रत्येमि तस्य हि पुरेव नलं गिरेति ।
सस्मार सस्मरमतिः प्रति नैषधीयं
 तत्रामरालयमरालमरालकेशी ॥४०॥

 क्वेति ॥ सस्मरा कामतरलाऽधीरा मतिर्यस्याः सा अरालकेशी कुटिलकेशी भैमी तत्र सभायां संदेहावसरे वेति मनसि विचार्य नैषधीयं नलसंबन्धिनं नलदूत्यकारिणममरालयं मरालं स्वर्गनिवासिनं देवाश्रयं वा हंसं प्रत्युद्दिश्य इति सस्मार । इति किम्-स पतगो हंसः क्व कस्सिन्स्थाने प्राप्यते। स कः-यो हंसः मया परितः सामस्त्येन एषु मध्ये सत्यं नलं मह्यं कथयेति विश्वास्यतया पृच्छ्यते । स एव किमिति प्रष्टव्य इति चेदाह-हि यस्मात्तस्य हंसस्य गिरा पुरेव संघटनाकाल इव नलं प्रत्येमि निश्चिनोमि । अदृष्टमज्ञातमपि च नलं दूत्यावसरे यथा हंसवचनेनाहं ज्ञातवती, तथाधुनापि नलनिश्चयाभावे परमाप्तस्य तस्य वचनान्नलं निश्चिनोमीति । मदनपरवशत्वेनाधीरत्वान्नलस्य निश्चयार्थमाप्ततमं हंसं सस्मारेत्यर्थः । प्राप्यत इत्यादि 'वर्तमानसामीप्ये' इति लट् । निषधसंबन्धि नैषधीयं नलवरणलक्षणं कार्यमुद्दिश्य हंसं सस्मारेति वा योजना। 'किल नैषधीयम्' इति पाठे नलं किल निश्चितं प्रत्येमीति योजना । 'प्रियदूतभूतम्' इति पाठो वा॥


  1. 'त्वरितेत्त्वात्' इति तूचितम् ।