पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८०
नैषधीयचरिते

रोऽपि न सेहे । यतः-पिशुनौ खलौ । निश्चिते नले विवाहो भवत्येव, संदेहस्तु प्रति- बन्धकः । तस्मात्कलिवद्वापरस्यापि विरोधित्वात्तेन सा पीडितेत्यर्थः । द्वापरे कलो च भैमीनलयोरभावात्तयोविवाहं न सहेतां तावित्यर्थः । नलनिश्चयाभावात्सातितमां संतापमापेति भावः । शब्दश्लेषबलेनेयमुक्तिः। कारिष्यते, 'स्यसिच्सीयुट्तासिषु-' इतीटश्चिण्वद्भावात् 'अचोञ्णिति' इति वृद्धिः। परिभवः, 'परौ भुवोऽवज्ञाने' इति घञो विकल्पितत्वात् 'ऋदोरप् ॥

उत्कण्ठयन्पृथगिमां युगपन्नलेषु
 प्रत्येकमेषु परिमोहयमाणबाणः ।
जानीमहे निजशिलीमुखशीलिसंख्या-
 साफल्यमाप स तदा यदि [१]पञ्चबाणः ॥ ३८ ॥

 उत्कण्ठयन्निति ॥ परिमोहयमाणा मोहजनका बाणा यस्यैवंभूतः, अत एव इमां भैमीं प्रत्येकम् , एष्यिन्द्रादिनलपदेषु युगपदेकस्मिन्नेव काले पृथक् पार्थक्येनोत्कण्ठयन्सोत्कण्ठां कुर्वन् , अयं वा नल इति बुध्धैवैकस्मिन्विषये तुल्यकालं पृथक्प्रकारेणोत्कण्ठयन् । पृथक्प्रयत्नसाध्यामन्यादृशीमुत्कण्ठामस्या जनयन्निति यावत् । एवंभूतः स पञ्च. बाणो निजाः स्वीयाः शिलीमुखा बाणाः ताशीलयत्यभ्यस्यति । स्वीयबाणाश्रितेति- यावत् । एवंभूता पञ्चसंख्या तस्याः साफल्यं सप्रयोजनत्वं यद्याप, तर्हि तदा त- स्मिन्नेवावसरे, नत्वन्यदेति वयं जानीमह उत्प्रेक्षामहे । एकस्मिन्नलेऽनुरागस्य पर्या- येणैकेनैव बाणेन जनने शेषाणां चतुर्णां वैयर्थ्यमेव स्यात् । किमयं नलः, किमयं नल इति नलत्वेनोपलक्षितेषु पञ्चस्वपि प्रत्येकं पञ्चभिरेव बाणैः पृथकप्रयत्नेन युगपदनुरा. गजनने पञ्चानामपि बाणानां साफल्यं तदैव जातमित्यर्थः । पृथगित्यस्योत्कण्ठाविशे- षणत्वात् , प्रत्येकमित्यस्येन्द्रादिविशेषणत्वात्संबन्धभेदान्नार्थपौनरुक्त्यम् । नलेषु यु- गपदिमां पृथगुत्कण्ठयन् , तथा प्रत्येकमेषु नलेष्वेव युगपत्परिमोहयमाणा अर्थाद्भैम्यां विषयेऽनुरागजनका बाणा यस्य स मदनः यदि निजबाणसंख्यासाफल्यमाप तर्हि त- दैव नान्यदा । पञ्चस्वपि तस्या युगपत्पृथगनुरागजननात् , तस्यामपि पञ्चानामपि तेषां प्रत्येकं युगपदनुरागजननाच्च स्वीयवाणसंख्यायाः साफल्यमापेत्यर्थ इति वा । नलेषु तां पृथक्सोत्कण्ठां कुर्वन् । तथा-एषु नलेष्वेव प्रत्येकमुत्कण्ठां जनयन् अर्थाद्भैमी प्रति । यतः-परिमोहयमाणबाण इत्युभयत्रापि हेतुगर्भं विशेषणम् । सा भैमी पञ्च- स्वपि नलबुद्ध्यैव सानुरागाभूदिति भावः । तेऽपि तस्यामित्यपि च भावः । पञ्चस्व- नुरागात्पातिव्रत्यभङ्गप्रसङ्ग इति न । पञ्चस्वपि परपुरुषतापरिहारेण नलबुद्ध्यैवानुरा- गात्परिहारः । उत्कण्ठयन्–इयमुत्कण्ठते, कामश्चैनामुत्कण्ठयति, हेतुमण्णिच् शता। पक्षान्तरे तु-उत्कण्ठां कुर्वन्निति 'तत्करोति-' इति णिच् ॥


  1. 'पुष्पचापः' इति सुखावबोधासंमतपाठः ।