पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७४
नैषधीयचरिते

इन्द्रानलार्यमतनूजपयःपतीनां
प्राप्यैकरूप्यमिह संसदि दीप्यमाने ॥ ३३ ॥

 त्वमिति ॥ या त्वं किल नले विषयेऽथिनी साभिलाषा तस्यास्ते तव अमुत्र नले निजापणं स्वसमर्पणं शुभाय कल्याणाय तुष्टये च संतोषाय च क न स्यात्कुतो न भवेत् , अपितु स्यादेव । किंविधेऽमुत्र–इन्द्रश्चानलश्चार्यमतनूजो यमश्च पयःपतिर्वरुणश्चैतेषामैकरूप्यं सारूप्यं दिक्पालांशत्वात्सरूपत्वं प्राप्य इहास्यां संसदि सभायां दीप्यमाने । तस्मादयं वरणीय इत्यर्थः । अथवा-या त्वं नले न साभिलाषा, तस्यास्तवामुत्र नले निजापणं शुभाय कुतः स्यात्, अपि तु न कुतोऽपि । किमित्यत आह-इन्द्राग्नियमवरुणानां चतुष्टये ऐकरूप्यं नलसारूप्यं प्राप्य इह सभायां ज्वलति सति । एतान्प्रसन्नानकृत्वा यन्नलवरणं तच्छुभाय न भवेदेव, शापं दास्यन्तीत्यर्थ इति वा। या त्वं नले विषयेऽथिनी एवं वर्ण्यमानमप्येनं नलं न वृणोषि । यतः तस्यास्ते नलसारूप्यं प्राप्य इह सभायां प्रकाशमाने इन्द्रादीनां चतुष्टये मध्ये क्व कस्मिन् इन्द्रेऽग्नौ यमे वरुणे वा निजार्पणं शुभाय स्यात्कथय । मया बहुशः प्रोच्यमानाऽपि यनलं न वृणुषे तर्खेतेषु सुन्दरतमेषु चतुर्षु मध्ये कं वृणुष इति कथय इत्यर्थ इति वा । अनेनान्द्रादयो वर्तन्ते न वेति संदेहो निरस्तः । परं तु के ते कश्च नल इति विशेषो नोक्तः। अत्रेन्द्रादीनां चतुर्णा त्यागोऽपि प्रतीयते । या त्वं नलेऽथिनी, तस्याः ते नलस्वरूपतां प्राप्य इह सभायां दीप्यमान इन्द्रादिचतुष्टये निजार्पणं शुभाय व स्यात् । अपितु न कुतोऽपि । या ह्यन्यत्रानुरक्ता, तस्या अन्यत्र निजार्पणे शुभं कथं भवेत् । अन्यच्च नलरूपधारणादेते प्रकाशन्ते न त्वेषां सहज सौन्दर्यमस्ति । अतोऽप्येते न वरणीया इति भावः॥

देवः पतिर्विदुषि नैषधराजगत्या
 निर्णीयते न किमु न बियते भवत्या ।
नायं नलः खलु तवातिमहानलाभो
 यद्येनमुज्झसि वरः कतरः परस्ते ॥ ३४ ॥

 देव इति ॥ हे विदुषि श्लेषोक्तिचातुरीपरिज्ञानचतुरे भैमि, एष पुरोवर्ती देवः स्वर्ग क्रीडाकारी अमरश्च धराजगत्या भूलोकस्य पतिः पालयिता न किंतु अर्थात्स्वलॊकस्य पतिरिन्द्रस्त्वया किमु किमिति न निर्णीयते इन्द्रत्वेन किमिति न निश्चीयते । अपितु निश्चय इत्यर्थः। किमिति वा न वियते अपि तु वरणीयश्चेत्यर्थः। मया न निश्चित इति कुतोऽवसितं भवत्येति शङ्कायां सत्यामाह-यतो न बियते इति हेतूपन्यासः सरस्वत्या कृतः । अयमिन्द्र इति चेत्तव निश्चयः स्यातर्हि मनुष्यापेक्षयाधिकत्वादयं वृत एव स्यात्तत्तु नं कृतम् । अत इन्द्रत्वेन त्वयाऽयं न निश्चित इत्यर्थ इति वा। धराणां पर्वतानामजनं आजः क्षेपणं तत्र गतिरुपायभूतो वज्रस्तेन कृत्वायं ना पुरुषः सामर्थ्यवान्वज्रायुधो देव इन्द्रः पतिर्भर्ता भर्तृत्वेन किं न निश्चीयते, निश्चितश्चेकि न वियत इति वा। धराजगत्या वज्रस्य पतिः एष देवः त्वया न निश्चीयत इति न, अपितु निश्चित एव ज्ञात