पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७३
त्रयोदशः सर्गः


किमिति ॥ अमुष्य नलस्य आशयोऽभिप्रायः तव पाणिपीडनस्य पाणिग्रहणस्य वि- निर्मितये निष्पत्तये अनपाशः अपगता आशा यस्मादपाशः एवंविधो न भवत्यनपाशः तत्परो यथा स्यात्तथा किं ते मतिर्बुद्धिः । किंशब्दः संभावनायाम् । यथायं त्वद्वरणायाभिलाषसहितान्तःकरणो भवेत्तथा त्वं प्रायेण करिष्यसीति गम्यते इत्यर्थः । असौ नलो भुवनं जगत् चरिष्णून्संचरणशीलान्कान्मानवान्मनुष्यान् नोऽवति रक्षति अपितु सर्वानप्ययमेव रक्षति । मानवानभिमानी नलः कान्न रक्षतीति वा । तस्मादमुत्र नले भवती रतानेति न युक्तम् । किंत्वस्मिन्रता भवेत्यर्थः । असौ ना पुरुषश्रेष्ठः अतो नरता पुरुषश्रेष्ठत्वममुत्र भवतीति युक्तं न त्वेतेष्वित्यर्थ इति वा । असौ ना, अमुत्र भवती रता नेति युक्तं, अपि तु नेति वा । असौ ना पुरुषश्रेष्ठः, अतोऽमुत्र भवती रतानुरक्तेति किं न युक्तं अपि तु युक्तमेवेति वा । भवतीति संवुद्धिर्वा ॥

 वरुणपक्षे-अमुष्य वरुणस्य शयः पाणिर्येन प्रकारेण त्वत्पाणिग्रहणनिष्पत्तये नपाशः न विद्यते पाशो यस्मिन्नेवंविधः पाशरहितो यथा भवेत्तथा ते बुद्धिः किम् । किं प्रश्ने । पाशं त्यक्त्वा त्वत्पाणिग्रहणं करिष्यतीत्यर्थः । त्वत्पाणिग्रहणनिष्पत्तयेऽस्य शयः करः स्यात् पाशो न । त्वत्पाणिग्रहणं शयेन करिष्यतिं पाशं त्यक्ष्यतीति भयं मा यासीरित्यर्थ इति वा । असौ भुवनमुदकं तत्संचरणशीलान्मनुष्यान्कान्नोऽवति । अपितु जलप्रविष्टान् ब्रुडनादिप्रमादावरुण एव रक्षति । उदकसंचरणशीलान्मनुष्यानोऽवति । अपितु रक्षतीति वा । नोऽस्माकं भुवनं पृथ्वीलोकः तत्रसंचरणशीलान्मनुष्यान् कादुदकाद्धेतुभूताद्रक्षति । सर्वेषां ह्युदकं जीवनमिति वा अमुत्र भवती न रता नानुरक्तेति न युक्तम् । अमुत्र नरता मनुष्यत्वं न भवतीति युक्तम् । देवोऽयमित्यर्थ इति वा । अमुत्र नरता नलत्वं न भवतीति युक्तमिति वा । असौ ना न पुरुषो न भवति, अतोऽमुत्र भवती रतेति युक्तं अपि तु नेति वा । अमुत्र भवती न रता नानुरक्तेति न युक्तं अपि तु युक्तमेवेति वा॥

श्वोकादिह प्रथमतो हरिणा द्वितीया-
 ड्धूमध्वजेन शमनेन समं तृतीयात् ।
तुर्याच्च तस्य वरुणेन समानभावं
 सा जानती पुनरवादि तया विमुग्धा ॥ ३२ ॥

 श्लोकादिति ॥ इह चतुर्षु 'अत्याजि-' इत्यादिश्लोकेषु मध्ये 'अत्याजि-'इति प्रथमतः श्लोकाद्धरिणा इन्द्रेण समं सह, 'येनामुना-' इति द्वितीयाच्छ्रोकाड्धूमध्वजेनाग्निना सह, 'यञ्चण्डिमा-' इति तृतीयाच्लोकाच्छमनेन यमेन सह, 'किं ते-' इति तुरीयाच्छ्रोकाद्वरुणेन सह, तस्य नलस्य समानभावं तुल्यरूपत्वं जानती अत एव विमुग्धा विशेषेण भ्रान्ता भैमी तया देव्या वक्ष्यमाणं पुनरवादि ॥

त्वं याडर्थिनी किल नले न शुभाय तस्याः
 क्व स्यान्निजार्पणममुष्य चतुष्टये ते ।