पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७५
त्रयोदशः सर्गः

एव किमु न वियत इति वा । उशब्दः संबोधने । धरान्पर्वतानजति क्षिपतीति धराज इन्द्रः स एव गतिः शरणं यस्याः प्राच्या दिशः पतिर्देव इन्द्रोन निर्णीयते इति न, परं किं न व्रियत इति वा । इन्द्रश्चेन्नल इव कथं दृश्यत इत्यत आह-अयं खलु निश्चयेन नलो न भवति, तव नलवदाभातीति नलाभः । अत्र हेतुमाह-यतः अतिशयितं महस्तेजो यस्य मनुष्यापेक्षया बहुतेजा इत्यर्थः । अत एव वरणीयः । अथ वा-अयं नलस्तृणविशेषः तत्तुल्योऽसारभूतो न भवति । किं त्वतिबलः, अतोऽपि वरणीय इत्यर्थः । अस्य वरणे निश्चितं अतिशयिता ये महा नन्दनवनक्रीडादय उत्सवाः, अननं आनः प्राणनं च, तेषां लाभः प्राप्तिस्तव भविष्यतीति शेषः । इन्द्रवरणे नन्दनवनक्रीडाः सुधापानेनामरत्वं च त्वया प्राप्स्यते इत्यर्थः । अतिमहतश्चिरकालस्य प्राणनस्य लाभो भविष्यतीति वा । एवंगुणविशिष्टमेनं अस्य विष्णोर्वा इनं ज्येष्टभ्रातृत्वेन स्वामिनमिन्द्रं चेत्त्यजसि तर्हि परोऽन्यः को वरः, अपि तु न कोऽपि । मद्धचनविश्वासादेनमेव वृणीष्वेति भावः। अथ च-यद्येनं त्यजसि तर्हि तव कतरोऽभीष्टो भवेत् , न कोपि । किंतु परः शत्रुरेव भवेदित्यर्थः । अथ च-यद्येनं त्यजसि, तर्हि तव परोऽन्यः एतदनन्तरः केन वायुना तरति प्लवते, केन जलेन तीर्यते शान्तिं प्राप्यते वा यः स कतरोऽग्निः वरो भवितेत्यर्थः ॥ * ॥ अत्रेन्द्रत्यागोऽपि सूचितः । तथाहि-एष भूलोकस्य रक्षको देवो राजा नलो नेति निर्णीय निश्चित्य तेन नलत्वाभावलक्षणेनैव कारणेन न व्रियते किम्विति प्रश्नः । युक्तमेवैतत्कृतमिति शेषः । धराज इन्द्र एव गतिर्जीवनोपायो यस्याः शच्याः पतिः देवो न निश्चीयत इति न, अपि तु निश्चित एव । न व्रियते किम्विति वा। संशयलेशस्यापि निरासार्थं देवी पुनस्तत्त्वमाह-अयं त्वत्संबन्धी त्वञ्चित्तानुरञ्जकोऽतिमहा (न्) नितरां तेजस्वी नलो न भवत्येव । यत् त्वया निश्चितं तत्तथ्यमेवेत्यर्थः । किं तु नलवदाभासत इत्येव । नलाकारधारणादेवास्याभा, न तु सहजेत्यर्थः । यद्वा-यतोऽयं नलाख्यतृणविशेषवनिःसारो भाति तस्मानितरां तेजस्वी नलो न भवतीत्यर्थः। यदिचैनं त्यजसि तहि ते श्रेष्ठाः के सुखे तरतीति कतरः सुखसमुद्ररूपो नलो वरो भवितेत्यर्थः । यद्वा-नैषधराजो नल एव गतिर्जीवनोपायो यस्या एवंविधया त्वया देव इन्द्रो न निश्चीयते किम् । अपि तु निश्चित एव । यतः-पतिर्न व्रियते । नलानुरागिणी त्वम्, इन्द्रोऽयमिति ज्ञात्वैव पतित्वेन नाङ्गीकरोषीत्यर्थः । यस्मात्-दैत्यैरतिक्रान्तं महो यस्य तस्मादसारभूतः । यदि चैनं त्यजसि तर्हि तव लाभो न । अपि तु लाभ एवेति वा॥

 वह्निपक्षे-धरतीति धरो वाहनं स चासावजश्च मेषः, धर इव पर्वततुल्यो वा यो मेषस्तेन कृत्वा या गतिः, धरायां भूमौ अजेन कृत्वा या गतिस्तयोपलक्षितः, पाकादिकरणद्वारा त्रैलोक्यरक्षणात्पतिः, देवो द्युतिमानमरश्च वह्निः न निश्चीयत इति न । अपि तु निश्चीयत एव । परं एवंगुणविशिष्टो ज्ञात्वापि न व्रियते । अपितु अग्नित्वेन निश्चित्य वरणीय एवेत्यर्थः। धरो वाहनमजो यस्य स धराजो वह्निः स एव गतिः शरणं यस्या आग्नेय्या दिशः पतिर्देवोऽग्निः किं न निर्णीयते । निर्णीतश्चेत्किमु न व्रियत इति वा । अग्निश्चेन्नलत्वेन किमिति भातीत्यत्राह-अयं निश्चितं नलो न, किं तु ततोऽप्यतितेजस्वी तव नलवदाभातीति वा । अयं त्वत्संवन्धी नलो न भवति, किंत्वनल एवेत्यर्थ इति वा । एवंगुणविशिष्टमेनं यदि त्यजसि, तर्हि अग्नेः परो अन्यः श्रेष्ठश्च ते को