पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७५
एकादशः सर्गः।

प्रसिद्धिः। तत्र तस्यां विपाशि नद्यां जाता नवा तत्कालं विकासता नीरजराजिः कमलपङ्क्तिस्त्वन्नेत्रयोर्नीराजनायास्तां भवतु । त्वं राजमाने शोभमानेऽत्रास्मिन्राजनि अञ्जसा स्वत एवानुरज अनुरागं प्राप्नुहि । अस्यां नद्यां पूराभावात्सदा कमलानां सत्वान्नाराजनमप्यविच्छिन्नं भविष्यतीति नोत्सर्पिणीत्यनेन सूचितम् । अत एवैनं भजेत्यर्थः । नीराजनायेति नेत्रापेक्षया कमलानां हीनत्वं सूचितम् । अनुरज इति, रञ्जश्च' इति नलोपः ॥

एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसा
 दुग्धीकृते तदुभयव्यतिभेदमुग्धाः ।
क्षीरे पयस्यपि पदे द्वयवाचिभूयं
 नानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥ ७ ॥

 एतदिति ॥ हंसाः अखिलेऽम्बुनि एतद्यशोभिर्दुग्धीकृते सति तयोरुभयोः क्षीरनीरयोर्व्यतिभेदः परस्परविवेकस्तद्विषये मुग्धा मूर्खाः सन्तु । सर्वपयसि दुग्धरूपे जाते सति प्रतियोगिनोऽभावात्सर्वं दुग्धत्वेन जानन्त्वित्यर्थः । तथा-नानार्थकोषविषयः नानार्थकोषसंग्राहिनिघण्टोरमरकोषादेर्विषयः प्रतिपाद्यं क्षीरे पदे पयस्यपि पदे विषये द्वयवाचिभूयमुभयार्थवाचित्वम् ‘पयः क्षीरं पयोऽम्बु च' इति अद्य त्वया एतस्मिन्नङ्गीकृते सति मृषोद्यं मिथ्यावाच्यमस्तु भवतु । अस्य यशसा क्षीरनीरयोरेकत्वे कृते प्रतियोगिनो जलस्याभावाद्वितीयस्य अभिधेयस्याभावाद्द्व्यर्थवाचित्वमयुक्तमित्यर्थः । एवंविधं यशोऽन्यस्य कस्यापि न विद्यत इति भावः[१]

ब्रूमः किमस्य नलमप्यलमाजुहूषोः
 कीर्तिं स चैष च समादिशतः स्म कर्तुम् ।
स्वद्वीपसीमसरिदीश्वरपूरपार-
 वेलाचलाक्रमणविक्रममक्रमेण ॥ ७९ ॥

 बूम इति ॥ हे भैमि, वयं सर्वोत्कृष्टं नलमपि अलमत्यर्थमाजुहूषोः स्पर्धमानस्यास्य संबन्धि किं ब्रूमः । अस्य चरितं वागगोचरमित्यर्थः। स्पर्धामेवाह :-स च नलः, एष च मेधातिथिश्चोभौ कीर्तीः स्वयशांस्यक्रमेण युगपत्स्वद्वीपयोर्जम्बूप्लक्षद्वीपयोः सीमायां मर्यादारूपो वा यः सरिदीश्वरः समुद्रस्तस्य पूरः प्रवाहस्तस्य पारवेलायां परतीरमर्यादायां योऽचलः पर्वतस्तस्याक्रमणविक्रममारोहणलक्षणं पराक्रमं कर्तुं समादिशतः स्म संदिष्टवन्तौ । त्वदीया कीर्तिर्दूरगामिनी मदीया वेति निर्णेतुं युगपत्कीर्तिं प्रेषितवन्तावित्यर्थः| नलस्पर्धयैतस्य न्यूनत्वं सूचितम् । आह्वातुमिच्छति, न त्वाह्वयते इति वा ।


  1. अत्र 'अखिलेऽम्बुनि दुग्धीकृते' इति सामान्यालंकारः । तदुपजीवनेन हंसानां क्षीरनीरविवैकसंबन्धेऽपि क्षीरपयःपदयोरप्यर्थद्वयसंबन्धे तदसंबन्धरूपातिशयोक्तिद्वयोत्थापनात्संकरः इति जीवातुः