वेलाबला-' इति पाठे वेलाया बलेनाक्रमणमित्यर्थः । नलम्, 'न लोका-' इति षष्ठीनिषेधः
अम्भोजगर्भरुचिराथ विदर्भसुभ्रू- |
अम्भोजेति ॥ अथ अम्भोजस्य गर्भो मध्यस्तद्वद्रुचिरा सातिगौरी विदर्भसुभ्रूः रूपेण सौन्दर्येण जितत्रिलोकं गर्भरूपं वयःसंधौ वर्तमानं युवानमपि तं भूपं वैराग्येणाननुरागेण रूक्षं यथा तथावलोकयति स्म । अनुरक्ता नासीदित्यर्थः । का कमिव-पुरत्रयरि- पोर्हरस्य दृष्टिः पुष्पचापं काममिव । स्वप्रियनलस्पर्धितया सक्रोधत्वात्परुषेक्षणं ज्ञेयम्। 'द्विगोः' इति ङीब्विधेः संज्ञापूर्वकत्वेनानित्यत्वाद्वहुव्रीहिणा वा जितत्रिलोकमिति समर्थनीयम्||
ते तां ततोऽपि चकृषुर्जगदेकदीपा- |
त इति ॥ ते अंसस्थले स्थिताः समानास्तुल्या विमानदण्डा येषां ते शिबिकाभृतः तां भैमीं तेजस्वित्वाज्जगदेकदीपाल्लोकत्रयैकदीपरूपात्ततोऽपि तस्मादपि राज्ञः सकाशाच्चकृषुः| अन्यं प्रापयामासुरित्यर्थः । के कस्मात्कामिव-सोत्कण्ठा उत्सुका कैरववनी कुमुदवनी तस्याः सुकृतप्ररोहाः पुण्याङ्कुराः चण्डद्युतेः सूर्याद्दर्शे सूर्यं प्रविष्टामुदयिनीमुदयोन्मुखां शुक्लपक्षे प्रतिपदादिक्रमेण चन्द्रलेखामिव समाकर्षन्ति ॥
भूपेषु तेषु न मनागपि दत्तचित्ता |
भूपेप्विति ॥ अथ तया वचनदेवतया सरस्वत्या मृगेक्षणा पुनरभाणि उक्ता । किंभूता -तेषु भूपेषु मनागपि न दत्तचित्ता । अत एव किंभूतया-विस्मेरया विस्मितया तथा-वाण्याः गुणोदयेन माधुर्यादिगुणोदयेन कृत्वा तृणीकृतो जितः पाणौ स्थिताय वीणाया निक्वाणः स्वनो यया॥