पीचा तवाधरसुधां वसुधासुधांशु- |
पीत्वेति ॥ हे चमत्कृतो भीतश्चकोरः तद्वञ्चलाचले चञ्चले अक्षिणी यस्यास्तत्संबुद्धिः सोऽयं वसुधायां सुधांशुर्भूचन्द्रो राजा तवाधरसुधामोष्ठामृतं पीत्वा इक्षुरसोदवारामिक्षुरससमुद्रोदकानां रसं स्वादं न श्रद्दधातु नाभिलषतु । किंभूतानां वाराम्-तस्य द्वीपस्य परिवेषवेषं परिवेषाकारं दधतां विभ्रताम् । अन्यत्र चकोराश्चन्द्रस्य सुधां पिबन्ति, अत्र चन्द्र एव चकोराक्ष्यास्तवाधरसुधां पिबतीति चमत्कृतेत्यनेन सूचितम् ॥
सूरं न सौर इव नेन्दुमवीक्ष्य तस्मि- |
सुरमिति ॥ तस्मिन्द्वीपे यश्चन्द्रभक्तो जन इन्दुमदृष्ट्वा नाश्नाति । यतः तस्मादितरोऽन्यो यस्त्रिदशो देवस्तस्यानभिज्ञश्चन्द्रातिरिक्तदेवानभिज्ञः। कः कमिव-सौरः सूर्यभक्तो जनः सूर्यव्यतिरिक्तदेवतानभिज्ञः सूरं सूर्यमदृष्ट्वा नेव नाश्नाति । तस्य ऐन्दवस्य इन्दुभक्तस्य चन्द्रलेखारहितेऽपि दर्शेऽश्नतोऽपि भुञानस्यापि भवदास्यनिरीक्षयैव भवन्मुखचन्द्रदर्शनेनैवावर्कीणिभावो न भवति लुप्तवतत्वं न भवतु । चन्द्राधिकं भवन्मुखं दृष्ट्वैव भोजनादित्यर्थः । एतदेव चन्द्रस्थाने भविष्यतीति भावः। सौरः, ऐन्दवः, इत्यत्र भक्तिः' इत्यण्[१] ॥
उत्सर्पिणी न किल तस्य तरङ्गिणी या |
उत्सर्पिणीति ॥ तस्य द्वीपस्य या तरङ्गिणी विपाडूनाम्नी नदी प्रावृट्कालेऽप्युत्सर्पिणी कूलंकषा नेति अहह आश्चर्यं किलेति । अन्यद्वीपे प्रसरन्ती दृश्यते, अत्र तु नेति पुराण-
- ↑ अत्र 'व्रतभङ्गदोषाभावेनैव तन्मुखेन्दुभ्रमाद्भ्रान्तिमदलंकारो व्यज्यते' इति वस्तुनाऽलंकारध्वनिः इति जीवातुः।