ज्ञापितस्य । किंभूतास्ते-एकतः क्षितिपतेरेकस्मान्नृपात् । अस्माद्वपुष्मत इत्यर्थः । तां भैमीमपरं राजानं नयन्तः प्रापयन्तः । नयतिद्विकर्मा ॥
तां भारती पुनरभाषत नन्वमुष्मि- |
तामिति ॥ भारती तां पुनरभाषत । ननु भैमि, त्वं अमुष्मिन्महीभुजि भावमनुरागं भज कुरु । किंभूते-काश्मीरपङ्कनिभेन कुङ्कुमानुलेपनव्याजेन लग्नः जनानामनुरागो यस्मिन् । तथा-श्रीखण्डलेपनमयी चन्दनानुलेपनरूपा दिग्जयजनिता कीर्तिराजिः कीर्तिपरम्परा तया राजन्तौ भुजौ यस्य । रागस्य लौहित्यात्कीर्तेश्च शुभ्रत्वात्कुङ्कुमत्वं चन्दनत्वं च युक्तम् । जनानुरागेणातिसमृद्धित्वं सूचितम् ॥
द्वीपं द्विपाधिपतिमन्दपदे प्रशास्ति |
द्वीपमिति ॥ हे द्विपाधिपवन्मत्तमातङ्गराजवन्मन्दपदेऽलसगमने भैमि, क्षितिपः प्लक्षाख्येन वृक्षणोपलक्षितं द्वीपं प्रशास्ति पालयतितराम् । तत्तस्मात् त्वं अस्य मेधातिथिनाम्नो राज्ञ उरसि आलिङ्गनेन सृष्टसौख्या सती तथैव स्फुर राजस्व । यथा यमलार्जुनारेर्विष्णोरुरसि साक्षात्कमला सृष्टसौख्या सती स्फुरति । मेधा धारणावती वुद्धिरतिथिर्यस्य| अस्यैव त्वं योग्येत्येवकारो योज्यः । सृष्टसौख्यैवेति वा॥
प्लक्षे महीयसि महीवलयातपत्रे |
प्लक्ष इति ॥ तत्र द्वीपे महीवलयस्यातपत्ररूपे छत्ररूपे महीयस्यतिमहति प्लखे ईक्षिते सति खलु निश्चितं तवापि खेलां दोलारूपां क्रीडां विधातुं कर्तुं बुद्धिर्भवित्री भविष्यति| किंभूते-अधिशाखं शाखासु विलम्बिन्यो दोलास्ताभिर्लोलं अखिलमङ्गं यस्याः तया जनतया जनितोऽनुरागो यस्मिन् । तस्यां समुदितोऽनुरागो येन वा । लोकं दोलारूढं दृष्ट्वा दोलाक्रीडायां तवापीच्छा समुदेष्यतीत्यर्थः ॥