पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
नैषधीयचरिते

तद्द्पीपदीप इव दीप्तिभिरौषधीनां
 चूडामिलज्जलदकज्जलदर्शनीयः ॥ ६९ ॥

 द्रोण इति ॥ तत्र द्वीपे स प्रसिद्धः लक्ष्मणविशल्यीकरणार्थं हनूमता नीतो द्रोणमनामा गिरिः भाग्येन सुकृतविशेषेण लभ्यं सौभाग्यसंबन्धि कार्मणं औषधीभिर्मूलैः वशीकरणं तद्रूपामुपदामुपायनं अन्यपरित्यागेन स्वयमेव पतिर्यथोपभुङ्क्ते तथा वशीकरणमौषधिरूपमुपहारं ते तुभ्यं वितरिष्यति । एवंविधमौषधं महता पुण्येन विना न लभ्यते । तव तु तत्पतित्वादप्रयत्नेन तल्लाभो भविष्यति । धन्या त्वमित्यर्थः । किंभूतः- -औषधीनां मृतसंजीवन्यादीनां दीप्तिभिः तस्य द्वीपस्य दीप इव स्थितः । यतश्च. डासु शिखरेषु मिलन्तः संलग्ना जलदा एव कज्जलं तेन दर्शनीयः सुन्दरः । 'मूलकर्म तु कार्मणम्' इत्यमरः । वशीकरणे कज्जलादि भवति [१]

तद्द्वीपलक्ष्मपृथुशाल्मलितूलजालैः
 क्षोणीतले मृदुनि मारुतचारुकीर्णैः ।
लीलाविहारसमये चरणार्पणानि
 योग्यानि ते सरससारसकोशमृद्वि ॥ ७० ॥

 तदिति ॥ हे सरसं नूतनं सारसं कमलं तस्य कोशो मुकुलं राशिर्वा तद्वन्मृद्धि सुकुमाराङ्गि, मारुतेन चारु संनिवेशविशेषेण निबिडं वा कीर्णैः प्रस्तारितैस्तस्य द्वीपस्य लक्ष्म चिह्नभूतः पृथुमहाञ्शाल्मलिवृक्षस्तस्य तूलजालैः कार्पाससमूहैः कृत्वा मृदुनि क्षोणीतले लीलाविहारसमये विलासगमनकाले ते तव चरणार्पणानि योग्यानि । भवन्त्विति शेषः । अतिमृद्ध्या हि अतिमृदुनि स्थले गतिर्युक्ता[२]

एतद्गुणश्रवणकालविजृम्भमाण-
 तल्लोचनाञ्चलनिकोचनसूचितस्य ।
भावस्य चक्रुरुचितं शिबिकाभृतस्ते
 तामेकतः क्षितिपतेरपरं नयन्तः ॥ ७१॥

 एतदिति ॥ ते शिविकाभृतः भावस्य भैम्यभिप्रायस्योचितं योग्यं व्यापारं चक्रुः । किंभूतस्य-एतस्य राज्ञो गुणश्रवणकाले विजृम्भमाणा सा भैमी तस्या लोचनाञ्चलनिकोचनेन नेत्रप्रान्तसंकोचनेन सूचितस्य नृपालंकरणरत्नेषु दृष्टेन भैमीनेत्रसंकोचेन [[#endnote_{{{1}}}|[{{{1}}}]]]


  1. अत्र 'कार्मणमयीमुपदाम्' इति परिणामालंकारः । आरोप्यमाणो यदीयस्तद्विषयकार्मणाकारपरिमाणेन प्रकृतप्रभुचित्तावर्जनोपयोगित्वात् । अस्य 'दीप इव' इत्युत्प्रेक्षया संसृष्टिः । तस्यास्तु 'जलदकज्जल' इति रूपकेण संकरः' इति जीवातुः
  2. 'अत्रानुरूपयोगोक्तेः समालंकारः' इति जीवातुः