पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५१
दशमः सर्गः।

तीत्यर्थे नोऽस्माकं राज्ञां योग्यायाः सत्या अनुपलम्भनमनुपलब्धिरेव प्रमाणम् । यदि योग्या विद्येत तर्ह्युपलभ्येत नोपलभ्यते, तस्मान्मर्त्यलोके नास्तीति वाच्यमिति भावः । तर्हि स्वर्गे पाताले वा भवेदित्यत आह-यदि नाके, अथवा अधोभुवने पाताले एत- त्सदृशी अस्ति, तदा कुतः कुत आगतः कौतस्कुतः तस्य सर्वतः समागतस्य लोकस्य स्वर्गपाताललोकाभ्यामपिसमागतस्य देवनागलोकस्य वाधोऽतिसंमददौ न स्यात् जातश्च संमर्दः तस्माल्लोकत्रयेऽप्येतादृशी नास्ति । अन्यथा देवा नागाश्च नात्रागच्छेयुरिति भावः । कुतः, कुत आगत इत्यर्थे 'तत आगतः' इत्यणि कस्कादित्वात्सः। 'तातस्तत-' इति पाठे ततस्तत आगत इत्यर्थे तेनैवाण[१]

  नमः करेभ्योऽस्तु विधेर्न वास्तु स्पृष्टं धियाप्यस्य न किं पुनस्तैः।

  स्पर्शादिदं स्याल्लुलितं हि शिल्पं मनोभुवोऽनङ्गतयानुरूपम् ॥१२५॥

नम इति ॥ विधेः करेभ्यो नमः अस्तु, वा अथवा न अस्तु । कुतः-अस्य विधेः धिया बुद्ध्या अपि ईदृशं शिल्पं न स्पृष्टं तैः हस्तैः न स्पृष्टमिति किं पुनर्वाच्यम् । श्रोत्रियत्वादीद्दशशिल्पनिर्माणे स्फूतिरेव नाभूत् किमिति हस्तैः स्पृशेत् । अथ च -निरवयवया बुद्ध्या यन्न स्पृष्टं तत् सावयवैर्हस्तैः कथं स्पृश्येतेत्यर्थः । तैन स्पृष्टमित्यत्र हेतुः-हि यस्मादिदमतिमृदु शिल्पं हस्तस्पर्शाल्लुलितमतिघुष्टं स्यात् । तर्हि केन निर्मितमित्यत्राह- इदं शिल्पमनङ्गतया निरवयवतया मनोभुवः कामस्यानुरूपम् । काम एवास्य कर्ता न विधिः, तस्मात्कामायैव नमोस्त्वित्य[२]र्थः ॥

  इमां न मृद्वीमसृजत्कराभ्यां वेधाः कुशाध्यासनकर्कशाभ्याम् ।

  शृङ्गारधारां मनसा न शान्तिविश्रान्तिधन्वाध्वमहीरहेण ॥१२६॥

इमामिति ॥ वेधाः मृद्वीमिमां कराभ्यां नासृजत् । यतः-कुशाध्यासनेन दर्भधारणेन कर्कशाभ्याम् । तर्हीयं मानसी स्यात्तत्राह-शृङ्गारधारां शृङ्गारनदीरूपामिमां मनसापि नासृजत्। यतः-शान्तिरसस्य विश्रान्त्यै धन्वाध्वा मरुदेशमार्गः, तत्र महीरहेण। वृक्षरूपेण । अतिनीरसेनातिकठिनेनेत्यर्थः। अतिकठिनेनातिमृद्वी शृङ्गाररसरूपा च निर्मातुमशक्ये[३] त्यर्थः॥

  उल्लास्य धातुस्तुलिता करेण श्रोणौ किमेषा स्तनयोर्गुरुर्वा ।

  तेनान्तरालैस्त्रिभिरङ्गुलीनामुदीतमध्यत्रिवलीविलासा ॥ १२७ ॥

 उल्लास्येति ॥ एषा श्रोणौ नितम्बदेशे गुरुः स्तनयोर्वा गुरुरिति गुरुत्वतारतम्यज्ञानार्थं धातुः करेण उल्लास्योत्क्षिप्य तुलिता किमिति तर्कः। श्रोणौ किं गुरुः, स्तनयोर्वा


  1. अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी। 'उपमानलोपालुप्तोपमालंकारः' इात जावातुः।
  2. 'अत्र संबन्धेऽप्यसंबन्धरूपातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अतिशयोक्तिसापेक्षा चेयमनङ्गसृष्टित्वोत्प्रेक्षेति संकरः' इति जीवातुः
  3. 'अत्र विरोधातिशयोक्तिरूपकालंकारः' इति साहित्यविद्याधरी।