पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
नैषधीयचरिते

किं गुरुरिति वा । तेनैव हेतुना चतसृणामङ्गुलीनां त्रिभिरन्तरालैरवकाशैः कृत्वा उदीतो मध्यदेशे त्रिवलीविलासो यस्याः सा । उदीतमध्यत्रिवलीविलासा किमिति वा किंशब्दो योज्यः । गुरुश्रोणी गुरुस्तनी चेयमिति भावः[१]

  निजामृतोद्यन्नवनीतजाङ्गीमता क्रमान्मालितपीतिमानम् ॥

  कृत्वेन्दुरस्या मुखमात्मनाभून्निद्रालुना दुर्घटमम्बुजेन ॥१२८॥

 निजेति ॥ इन्दुः एतां कृत्वा नवनीतेन एनां निर्माय आत्मना स्वेनैव रूपेणास्या मुखमभूत् । किंभूतामेनाम्-निजामृतात्स्वीयामृतात् उद्यत्समुत्पन्नं तक्रसारभूतं नवनीतं तस्माजातं अङ्गं यस्यास्ताम् । अत एव दिनवृद्धिक्रमेणोन्मीलितः प्रकटीकृतः पीतिमा गौरत्वं यस्यां ताम् । नवनीते हि क्रमेण पीतिमा भवति । तन्निर्मितत्वाच्चात्रापि पीतत्वं जातम् । यावद्यावत्तारुण्यं तावदस्यामधिकं गौरत्वं दृश्यत इत्यर्थः । यतः-चन्द्रकिरणसंबन्धान्निद्रालुना संकोचशीलेनाम्बुजेन कमलेन दुर्घटं दुष्करम् । कमलेन निर्माणे सर्वावयवानां चन्द्रकिरणैरेव निर्मितत्वात्तत्संबन्धात्कमलं संकुचेदेव । अथ च-रात्रौ सर्वदा कमलसंकोचात्स्वेनैव वदनाकारेण जातम् । चन्द्र एवास्या निर्मातेत्यर्थः । अतिसुकुमारा अतिगौरी, चन्द्रवदना चेयमिति [२]भावः ॥

  

अस्याः स चारुमधुरेव कारुः श्वासं वितेने मलयानिलेन ।

  अमूनि [३] सूनैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥ १२९ ॥

 अस्या इति ॥ स प्रसिद्धो मधुरेव वसन्त एवास्याः कारुशिल्पी चायॊग्यो नान्यः। यतः-सः अस्याः श्वासं मलयानिलेन वितेने निर्ममे । तथा -अमूनि प्रत्यक्षदृश्यान्यतिमृदून्यङ्गकानि ह्रस्वान्यङ्गानि चम्पकादिपुष्पैः विदधे निर्ममे । वाचं पिकस्य पञ्चमस्वरेण चकार । एतत्सर्वं वसन्ताधीनमेवेति तेनैवेयं निर्मिता । सुगन्धिश्वासा पुष्पवन्मृद्वङ्गी कोकिलालापा चेति भावः। 'षड्ज मयूरो वदति स चेन्मत्तस्तु पञ्चमम् । पुप्पसाधारणे काले पिकः कूजति पञ्च[४]मम्' ॥

  कृतिः स्मरस्यैव न धातुरेषा नास्था हि शिल्पीतरकारुजेयः ।

  रूपस्य शिल्पे वयसाऽपि वेधा निजीयते स स्मरकिङ्करेण॥१३०॥

 कृतिरिति ॥ एषा सरस्यैव कृतिनिर्माणं, न धातुः। हि यस्माद्य (द)स्याः शिल्पी इतरकारुभिर्जेयो न । यतः-वेधाः रूपस्य शिल्पे निर्माणविषये सरस्य किङ्करेण वयसा कामोद्दीपकेन तारुण्येन नितरां जीयते । बाल्यापेक्षया तारुण्ये रामणीयकस्याधिक्यान्मदनेन जीयत इति किं वाच्यमित्यपेरर्थः। तस्मान्मदनस्यैव कृतिः, तारुण्येन समदनातिरमणीया च कृतेयमिति [५] भावः॥


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  3. चाम्पैः, पुष्पैः, इति च पाठः ।
  4. 'अत्रासंबन्धे संबन्धातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।
  5. 'अत्रासंबन्धे संबन्धातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी