पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
नैषधीयचरिते

 व्यधत्तेति ॥ तयो रतिकामयोः भक्तं वयः यौवनं कर्तृ तस्या हृदि वासभाजो रतिकामयोः कृते सौधे द्वौ प्रासादौ कर्म व्यधत्त । द्वयोः सौधद्वयं युक्तम् । सौधद्वयकरणे प्रमाणमाह-यस्मात् कः पुरुषो भैम्याः स्तनौ तयोः सौधयोरग्रे उपरि जाग्रतौ प्रकाशमानौ पृथू पीवरौ शातकुम्भकुम्भौ सुवर्णकलशौ न संभावयति तर्कयति । अतो वयसा रतिकामार्थं पृथक् सौधे कृते एवेत्यर्थः। सौधयोरुपरि सुवर्णकलशाभ्यां भाव्यम्। तत्स्थाने कुचौ जाताविति भावः । अन्योऽपि भक्तः स्वर्णकलशभूषितौ प्रासादौ रचयति । सर्वदा रतिकामयुक्ता सुवर्णकुम्भतुल्यकुचा चेयमिति भावः[१]

  अस्या भुजाभ्यां विजिताद्बिसात्किं पृथक्करोऽगृह्यत तत्प्रसूनम् ।

  इहेष्यते तन्त्र गृहाः श्रियः कैर्न गीयते वा कर एव लोकैः॥१२२॥

 अस्या इति ॥ अस्या भुजाभ्यां पृथक्प्रत्येकं विजितादभिभूताद्विसात्तत्प्रसूनं बिसप्रसूनं कमलमेव करो बलिरगृह्यत किं प्रत्येकं दण्डो गृहीतः किम् । अथ च-कमलमेव हस्तत्वेनाङ्गीकृतमिति वितर्कः । कुत एतदित्याशङ्कयाह-इह लोके भुजयोः तत्करभूतं कमलं कैः लोकैः श्रियो गृहाः वसतिस्थानत्वेन शोभालयत्वेन च न इष्यते । कैर्वा लोकः कर एव करशब्देनैव न गीयते कीर्त्यते । अपितु सर्वैरपि । भैमीहस्तयोः श्रीगृहत्वं करशब्दवाच्यत्वं च विद्यते कमलस्य श्रीगृहत्वं लोकप्रसिद्धम् । करत्वं च विजिताद्विसाद्दण्डरूपत्वेन गृहीतं तद्युक्तमित्यर्थः । बिसकमलाभ्यामपि एतदीयं बाहुकरमतिसुन्दरतरमिति भावः । 'गृहाः पुंसि च भूम्येव' इ[२]त्यमरः ॥

  छद्मैव तच्छंबरजं बिसिन्यास्तत्पद्ममस्यास्तु भुजाग्रसद्म।

  उत्कण्टकादुद्गमनेन नालादुत्कण्टकं शातशिखैर्नखैर्यत् ॥ १२३ ॥

छद्मेति ॥ तत् प्रसिद्धं शंबरात् जलाज्जातं बिसिन्याः कमलिन्याः छद्मैवालीकमेव अथ च-शंबराद्दैत्याज्जातं छद्म मायारूपमेव । असत्यमित्यर्थः । तर्हि तत् किं सत्यं तत्राह-अस्यास्तु पुनः भुजाग्रे सद्म यस्य तत्पद्मं मुख्यम्। सत्यमित्यर्थः । कुत एतदित्याशङ्क्याह-यद्यस्मादुत्कण्टकादुद्गतरोमाञ्चात् । अथ च-उत्कृष्टशूकरूपकण्टकात् । नालाद्भुजदण्डादुद्गमनेन जातत्वेन शातशिखैस्तीक्ष्णाग्रैर्नखैः कृत्वा उत्कण्टकम् । पद्मं तूकण्टकनालादुद्गतमपि नोत्कण्टकम् । पद्मे कण्टकाभावात् । अतो न तत्पद्मम् । किंतु भैमीपाणिरेव । कार्ये हि कारणगता गुणा दृश्यन्ते । कमलाधिकौ तीक्ष्णनखौ चैतदीयहस्ताविति भावः । 'शंबरो दैत्यभेदे स्यात्' 'नीरक्षीराम्बुशंबरम्' इ[३]त्यमरः ॥

  जागर्ति मतर्त्येषु तुलार्थमस्या योग्येति योग्यानुपलम्भनं नः ।

  यद्यस्ति नाके भुवनेऽथ बाधस्तदा न कौतस्कुतलोकबाधः॥१२४॥

 जागर्तीति ॥ अस्याः तुलार्थं सादृश्यार्थं योग्या समुचिता मर्त्येषु मर्त्यलोकेषु जाग-


  1. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'भैमीपाणिपद्मस्य प्रसिद्धपभव्यतिरेकोक्त्या व्यतिरेकालंकारः' इति जीवातुः