पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४९
दशमः सर्गः।

लक्ष्याच्युतसायक इति खलो वदिष्यतीत्यपकीर्तिरूपी ज्ञातावित्यर्थः । कर्णपूरदर्शनान्मदनोद्रेको भवतीति [१]भावः ॥

  रजःपदं षट्पदकीटजुष्टं हित्वात्मनः पुष्पमयं पुराणम् ।

  अद्यात्मभूराद्रियतां स भैम्या भ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥११॥

 रज इति ॥ स आत्मभूः कामो भैम्याः भ्रूयुग्ममेव अन्तः मध्ये आधेयत्वेन धृतो मुष्टिर्येन । मुष्टिना मध्ये धृतत्वादृश्यमध्यम् । एवंभूतं चापमद्य आद्रियतां नूतनं धनुः करोतु । किं कृत्वा-पुष्पमयं पुराणं जीर्णमात्मनश्चापं हित्वा । यतः-रजःपदं परागस्थानं काष्ठचूर्णस्थानं च । तथा-षट्पदा एव कीटास्तैः सेवितं घुणादिकीटसेवितं च । पुष्पचापापेक्षया चास्याधिकसामर्थ्यान्नूतनत्वम्[२]

  पद्मान्हिमे प्रावृषि खञ्जरीटान्क्षिप्नुर्यमादाय विधिः क्वचित्तान् ।

  सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिव्यमेतदीयम् ॥ ११९ ॥

 पद्मानिति ॥ विधिः ब्रह्मा पद्मेभ्यः, खञ्जरीटेभ्यः यं सारमादाय तान्प्रसिद्धान्नीलोत्प- लादीन्हिमे शीतकाले, खञ्जरीटान्प्रावृषि वर्षाकाले क्वचिदनिरूपितस्थाने क्षिप्नु: क्षेपणशीलः सन् प्रतिवर्षं प्रतिसंवत्सरं तेन पद्मखञ्जनेभ्यो गृहीतेन सारेण एतदीयं दृष्टिद्वयमुच्चैरतितरां पुष्णाति वर्धयति । प्रतिवर्षं पद्माद्यभावान्नेत्रद्वये च शोभाधिक्यात्तदीयेनैव सारेण शोभावृद्धिरिति भावः । पद्मानित्यादौ 'न लोका-' इति षष्ठीनिषेधः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः[३]

  एतद्दृशोरम्बुरुहैर्विशेषं भृङ्गौ जनः पृच्छतु तद्गुणज्ञौ

  इतीव धाताकृत तारकालिस्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे ॥१२०॥

 एतदिति ॥ धाता इतीव हेतोः, अमुमर्थं कथयन्निवेति वा, अनेन कारणेन वा, इहासिन्नेत्रयुगे तारके एवालिस्त्रीपुंसौ भ्रमरदंपती तयोः माध्यस्थ्यं मध्यभागवर्तित्वम् । अथ च-साक्षित्वं अकृत । इति किम्-जनः एतद्दृशोर्भैमीनेत्रयोः अम्बुरुहैः पद्मै: सह विशेषं तारतम्यं तयोः पद्मनेत्रयोः गुणज्ञौ तारतम्यवेदिनौ भृङ्गौ भृङ्गी च भृङ्गश्च तौ कमलानि रमणीयानि, भैमीनेत्रे वा इति पृच्छतु । मध्यस्थो हि संशयं छिनत्ति । कमलानि परित्यज्यालिजायापत्योरत्रागमान्नेत्रयोरेव रमणीयत्वं ताभ्यां कथितम् । भैमीदृशौ कमलादधिके अतिनीलकनीनिके चेति भावः । भृङ्गाविति 'पुमान्स्त्रिया' । पृच्छिर्द्विकर्मा । स्त्रीपुंस इति 'अचतुर-' इति साधुः[४]

  व्यधत्त सौधे रतिकामयोस्तद्भक्तं वयोऽस्या हृदि वासभाजोः।

  तदग्रजाग्रत्पृथुशातकुम्भकुम्भौ न संभावयति स्तनौ कः ॥१२१॥


  1. 'अत्र रूपकहेत्वलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  4. 'अत्रोत्प्रेक्षारूपकालंकारः' इतिसाहित्यविद्याधरी