पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
नैषधीयचरित

यते, तत्तयोर्भ्रुवोर्वक्रत्वोन्मादकत्वलक्षणो यो गुणः, तन्मात्रस्य तदेकदेशभूतस्य उन्मादकत्वस्यैव वृत्त्या वर्तनेन । न तु तत्र वक्रत्वं वर्तते । ततश्चैकदेशसादृश्यलक्षणाद्गौणीनिमित्ताद्गौण्यैव वृत्त्यानङ्गचापत्वेन व्यवहर्तव्यम् । अथ च तत्पुष्पं पुनः दोरकमात्रे यद्ववर्तनं तेन कामचापमित्युत्प्रेक्षते । मालारूपस्य कामचापस्य कविभिरुक्तत्वात् । अतस्तस्यानङ्गचापत्वं सापेक्षम् । भ्रुवोस्तु निरपेक्षम् । 'भ्रवौ' इति द्विवचनेनासंलग्नत्वम् ,चापमित्येकवचनेन समुदितयोश्चापत्वं न तु प्रत्येकमिति च सूचितम् । अथ च--गुणस्तन्तुः सौगन्ध्यादि । तन्मात्रस्य या वृत्तिस्तया पुष्पस्य गुणवत्त्वसद्भावाच्चापस्य गुणवत्त्वात्पुष्पं कामचापमित्युच्यत इत्यर्थः । अभिधावृत्तेर्लक्षणापेक्षयाभ्यर्हितत्वाद्गौण्यपेक्षया चाभ्यर्हिततरत्वान्मुख्यत्वम् । ततश्च 'गु(गौ)णमुख्ययोर्मुख्ये कार्ये संप्रत्ययः' इति 'सापेक्षनिरपेक्षयोर्निरपेक्षं बलवत्' इति न्यायाद्भैभीमुखभ्रूयुगमेव मुख्यं चन्द्रानङ्गचापत्वाभिलाषयोग्यम्, अतिसुन्दरं मदजनकं चेति भावः । तत्र मुख्यो व्यापारोऽस्याभिधोच्यते । अभिधेयाविनाभूतप्रवृत्तिलक्षणेष्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता' इति अभिधादीनां लक्षणम् । 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया' इति । लक्षणया लक्षणेनैव संसृष्ट इत्यर्थे 'संसृष्टे' इति ठक् । मुख्यम् , मुखमिव भवतीतीवार्थे 'शाखादिभ्यो यत्,' पक्षे 'शरीरावयवाच्च' इति भवार्थे[१]

  [२]लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङ्कयुग्मं स्मरधन्विने किम् ।

  सव्यापसव्यं विशिखा विसृष्टास्तेनानयोर्यान्ति किमन्तरेव॥११६॥

 लक्ष्य इति ॥ सुदत्या भैम्याः कर्णभूषणीभूतं ताटङ्कयुग्मं स्मरधन्विने कामधानुष्काय कुण्डलिके कुण्डलाकारे लक्ष्ये कृत्वा धृतं किम् । तेन कामेन सव्यापसव्यं विसृष्टा मुक्ता विशिखा अनयोः कुण्डलिकयोरन्तरेव मध्य एव यान्ति किं वितर्के । भ्रूचापयोजिताः कटाक्षबाणाः कर्णताटङ्ककुण्डलाभ्यन्तरेण निर्यान्तीति भावः । प्रवीणस्य धानुष्कस्य बाणा लक्ष्यमन्तरेव यान्ति । ताटङ्कयुग्मदर्शनमात्रेण कामोद्रेकादेवं संभाव्यत इति भावः । अन्तः, एव इति पदच्छेदः। सब्यापसव्यं यथाकथंचित्क्रियाविशेषणम्॥

  तनोत्यकीर्तिं कुसुमाशुगस्य सैषा बतेन्दीवरकर्णपूरौ ।

  यतः अवाकुण्डलिकापराधशरं खलः ख्यापयिता तमाभ्याम् ॥ ११७ ॥

 तनोतीति ॥ सा एषा भैमी कुसुमाशुगस्य कामस्येन्दीवरयोर्नीलोत्पलयोः कर्णपूरौ श्यामत्वादकीर्तिं तनोति बत आश्चर्ये। खलो दुर्जनः पुरुष आभ्यां नीलोत्पलकर्णपूराभ्यां कृत्वा श्रवसोः कर्णयोः कुण्डलिकारूपाल्लक्ष्यद्वयात् अपराधौ च्युतौ शरौ नीलोत्पले एव बाणौ यस्य तं कामं ख्यापयिता कथयिष्यति । कर्णद्वये नीलोत्पलद्वयं कर्णपूरीकृतं, कुण्डलिके लक्ष्ये । कामस्य च पुष्पाशुगत्वादिन्दीवरयोस्तद्बाणत्वं युक्तम् । धानुष्कस्य बाणाभ्यां लक्ष्यमन्तरा गन्तव्यम् । इन्दीवरलक्षणौ बाणौ कर्णयोरुपरि वर्तेते इति कामो


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । द्वयोरुत्प्रेक्षयोनिरपेक्षत्वात्संसृष्टिः' इति साहित्यविद्याधरी
  2. 'लक्ष्यम्' इति प्रथमान्तः पाठः साहित्यविद्याधरीस्थः ।