पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४९
अष्टमः सर्गः

 स्वदिति ॥ त्वत्कान्तिं त्वत्सौन्दर्यं पिपासन्पातुमिच्छन् अयं निजः स्वीयः कटाक्ष एकया मुख्यया भैमीकान्तिमवश्यं वयं पाययामह इत्येवंरूपया मनोरथाश्वासनया मनोराज्यजन्ययाश्वासनयैव सान्त्वनेनैव कृत्वा कियन्ति वासराणि यावत्किद्दिनपर्यन्तं विप्रलभ्योऽस्माभिः प्रतारणीयः खलु निश्चितं भण कथय । पथि गच्छन्बालकादिरिदमुदकमिति प्रतारणं सहते, न तु द्वित्राणि दिनानि । तथा कटाक्षोऽपि । अस्मान्वृणीप्वेति भावः । अवधौ यावच्छब्दः । वासराणि, अत्यन्तसंयोगे द्वितीया [१]

  नि[२]जे सृजास्मासु भुजे भजन्यावादित्यवर्गे परिवेषवेषम् ।

  प्रसीद निर्वापय तापमङ्गैरनङ्गलीलालहरीतुषारैः ॥ ९२ ॥

 निज इति ॥ हे भैमि, त्वं निजे स्वीये भुजे आदित्यवर्गे अदित्यपत्यसमूहेऽस्मासु परिवेषस्य वेष्टनस्य वेषमाकारं भजन्त्यौ सृज कुरु । अङ्कपाली देहीति भावः। आदित्ये च परिवेषः परिधियुक्तः । तथा-अनङ्गलीलैव लहर्यस्ताभिस्तुपारैः शीतलैरङ्गैः कृत्वास्माकं तापं कामज्वरं निर्वापय शमय । प्रसीद प्रसन्ना भव । सकामत्वदङ्गसंपर्कादस्माकं कामज्वरः शान्ति प्रयास्यतीति भावः । शीतलेन तापशान्तिर्युक्ता । 'चार्वङ्गि निर्वापय' इति वा पाठः । 'अनुग्रहोऽस्मासु यदि त्वदीयस्तदेहि देहि द्रुतमङ्कपालीम' इति (पूर्वार्ध-)पाठः क्वचित् । स स्पष्टार्थः । भुजाशब्द आवन्तोऽपि । 'परिवेषो रवेः पार्श्वमण्डले वेष्टने तथा' इत्यजयपालः[३]

  [४] दयस्व किं घातयसि त्वमस्माननङ्गचण्डालशरैरदृश्यैः ।

  भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रः ॥९३ ॥

 दयस्वेति ॥ हे भैमि, दयस्व त्वं दयां कुरु । अदृश्यैराकस्मिकलग्नैः अनङ्ग एव चण्डालस्तस्य शरैः प्रयोज्यैः प्रयोजिका त्वं अस्मान्कि किमिति घातयसि, अपित्वेवं त्वया न कार्यम् । अन्योऽपि स्ववैरिणं चण्डालेनादृश्यैर्बाणैर्मारयति तर्हि किं कार्यमित्यत आह-वयं प्रेमरसात्प्रीतिरूपादसात्पवित्रैः पूर्णैः पूतैश्च तव तीक्ष्णकटाक्षलक्षणैर्वाणैर्भिन्ना विदीर्णाः सन्तो यत् प्रेमः म्रियामहे प्राणांस्त्यक्ष्यामः तत् मनाग्वरमिष्टम् । चण्डालबाण(प्रयोज्य) कर्तृकमरणापेक्षया तव पवित्रकटाक्षलक्षणैर्वाणैर्मरणं श्रेष्ठमित्यर्थः कटाक्षरस्मानाश्वासय । वृणीष्वेति भावः । रसादुद्कात्पवित्रत्वं युक्तम् । प्रेमः, प्रपूर्वादिणो मरणवाचिनो लडुत्तमबहुवचनम्[५]

  वदर्थिनः सन्नु परस्सहस्राः प्राणास्तु नस्वच्चरणमसादः।

  विशङ्कसे कैत[६]वनतितं चेदन्तश्चरः पञ्चशरः प्रमाणम् ॥ ९४॥


  1. 'अत्र समासोक्त्यलंकारः' इति साहित्यविद्याधरी
  2. 'निजे भुजे त्वं परिवेषभाजावदित्यपत्यप्रकरे विधेहि' इति क्वचित्पूर्वार्धपाठः इति सुखावबोधा।
  3. 'दयस्व नो घातय नैवमस्मान्' इति जीवातुपाठः ।
  4. ’दयस्व नोघातय नैवसत्मान्’ इति जीवातु पाठः
  5. 'अत्र रूपकातिशयोक्त्यलंकारौ इति साहित्यविद्याधरी।
  6. 'नाटितम्' इति सुखावबोधासाहित्यविद्याधरीस्थपादः