पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
नैषधीयचरिते

धोपभोगैः' इति पाठे उपभोगः साफल्यमपास्तं यैः । पाथेयं, साध्वर्थे पथ्यतिथि-, इति ढञ्[१]

प्रि[२]या मनोभूशरदावदाहे देवीस्त्वदर्थेन निमज्जयद्भिः ।
सुरेषु सारैः क्रियतेऽधुना तैः पादार्पणानुग्रहभूरियं भूः॥ ८८॥

 प्रिया इति ॥ तैः सुरेषु सारैः श्रेष्ठैरिन्द्रादिभिरधुना इयं भूः भूमिः पादानामर्पणं तदेवानुग्रहः कृपा तस्य भूः स्थानं क्रियते । किंभूतैः-प्रियाः स्वस्त्रिय इन्द्राणीप्रमुखा देवीस्त्वदर्थेन त्वत्कारणेन मनोभूशराः कामबाणास्त एव दावो वनवह्निस्तजनितदाहे निमजयद्भिः । कामपीडिताः कुर्वद्भिरित्यर्थः । इदानीं भूमौ वर्तन्त इत्यर्थः । तेषामत्रागमनाद्देवीनां विरहसंतापः[३]

  अलंकृतासन्नमहीविभागैरयं जनसतैरमरैर्भवायाम्

  अवापितो जङ्गमलेखलक्ष्मी निक्षिप्य संदेशमयाक्षराणि ॥८९॥

 अलम् इति ॥ तैरमरैः भवत्यां त्वद्विषयेऽयं मल्लक्षणो जनः संदेशमयाक्षराणि निक्षिप्य जङ्गमलेखलक्ष्मी चलत्पत्रिकाशोभामवापितः प्रापितः । किंभूतैः-अलंकृत आसन्नो महीविभागो यैः । समीपस्थितैस्तैस्त्वां प्रार्थयितुमहं प्रेषित इत्यर्थः । भवत्यै' इति वा पाठः[४]

  एकै[५]कमेते परिरभ्य पीनस्तनोपपीडं वयि संदिशन्ति ।

  त्वं[६] मूर्छतां नः स्मरभिल्लशल्यैर्मुदे विशल्योषधिवल्लिरेधि ॥ ९० ॥

 एकैकमिति ॥ हे भैमि, एते देवाः एकैकं पृथक्पृथक् पीनस्तनयोरुपपीज्य संश्लिष्य तद्यथा (भवति) तथा, त्वत्पीनस्तनाभ्यामात्मानमुपपीड्य वा (परिरभ्य गाढमालिङ्गय) त्वयि इति संदिशन्ति । इति किम्-हे भैमि, त्वं स्मरभिल्लशल्यैः कामलक्षणपापधिक- नाराचैः कृत्वा मूर्च्छतां नोऽस्माकं मुदे प्रीतये शल्योद्धरणान्मूर्छापहाराय विशल्या- नाम्नी ओषधिवलिः एधि भव । त्वां विनास्माकं काममूर्छा न शाम्यतीत्यस्मान्वृणी- वेति भावः । एकैकम् , वीप्सायां द्विः। स्तनोपपीडम् , 'सप्तम्यां चोपपीडरुधकर्षः' इति णमुलि 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति समासः । एधि 'ध्वसोरेद्धावभ्यासलोपश्च' इत्येत्वम्[७]

  त्वत्कान्तिमस्माभिरयं पिपा[८]सन्मनोरथाश्वासनयैकयैव ।

  निजः कटाक्षः खलु विमलभ्यः कियन्ति यावगण वासराणि ॥ ९१ ॥



  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।
  2. 'देवी' इति पाठः साहित्यविद्याधरीसंमतः'।
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।
  4. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी
  5. 'प्रत्येकम्' इति
  6. ’त्वं नः प्रसूनाशुगभल्लशल्यजुषाम्, इति च पाठः सुखावबो- धासाहित्यविद्याधरीसंमतः ।
  7. 'धिच' इति सकारलोपः' इति जीवातुस्तु सर्वकषावदसाधुरेव । 'अत्रानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी ।
  8. 'पिपासुः' इति सुखावबोधास्थः पाठः ।