पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०'
नैषधीयचरिते

 त्वदर्थिन इति ॥ परस्सहस्राहाः बहवः त्वर्थिनस्त्वभिलाषुकाः सन्तु, नोऽस्माकं प्राणास्तु पुनस्त्वञ्चरणयोः प्रसादः । त्वञ्चरणौ चेत्प्रसन्नौ भवतस्तर्ह्येव न प्राणनं, नान्यथेत्यर्थः । इदं कैतवनर्तितमलीकभाषितमिति चेत् विशङ्कसे मन्यसे तर्ह्यन्तश्चरोऽन्तर्वर्ती पञ्चशरः कामः प्रमाणमत्र साक्षी । त्वन्निमित्तमस्माकं कियती पीडा भवतीति काम एव त्वया पृच्छ्यताम् । वयं चेन्मिथ्याभाषिण इत्यर्थः । कामोऽन्तर्वर्तित्वात्सर्वं वेत्ति । कूटसाक्ष्यं करोतीत्यर्थः । अतो वयमेवानुग्राह्याः, नान्ये इति भावः। परस्सहस्राः परश्शता इति वत्[१]

  अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदयं चिराय ।

  बहिस्त्वयालंक्रियतामिदानीमुरो मुरं विद्विषतः श्रियेव ॥ ९५ ॥

 [२] अस्माकमिति ॥ हे भैमि, भवत्या अस्माकमेतद्धृदयमन्तः आन्तरदेशे तावत् पुनः चिरायाध्यासितमधिष्ठितम् । चिरकालं चित्तमध्ये धृतासीत्यर्थः । परमिदानीं तद् उरः त्वया वहिर्देशेऽप्यलंक्रियताम् । आलिङ्गयतामित्यर्थः । कया कस्येव-श्रिया मुरं विद्विषतो विष्णोरिव । 'द्विषः शतुर्वा' इति मुरमिति द्वितीया[३]

  दयोदयश्चेतसि चेतवाभूदलंकुरु द्यां विफलो विलम्बः ।

  भुवः स्वरादेशमथाचरामो भूमौ धृति यासि यदि स्वभूमौ ॥९६॥

 दयोदय इति ॥ तव चेतसि अस्माकमुपरि दयाया उदयश्चेद्भदुदभूत् तर्हि त्वं द्यां स्वर्गमलंकुरु । विलम्बो विफलः । न कर्तव्य इत्यर्थः । अथ यदि स्वस्य भूमावुत्प- त्तिस्थाने भूमौ भूलोके धृतिं प्रीति यासि प्राप्नोषि तर्हि वयं भुवो भूलोकस्य स्वरादेशं स्वर्गसंज्ञामाचरामः कुर्मः। यत्र वयं स एव स्वर्गः । सर्वेऽप्यागत्य स्वर्गभोगानत्रैव कुर्म इति भावः । 'क्ष्मामेव देवालयतां नयामो भूमौ रतिश्चेत्तव जन्मभूमौ' इति पाठः[४]

  धिनोति नास्माञ्जलजेन पूजा त्वयान्वहं तन्वि वितन्यमाना।

  तव प्र [५] सादोपनते तु मौलौ पूजास्तु नस्वत्पदपङ्कजाभ्याम् ॥९७॥

 धिनोतीति ॥ हे तन्वि, त्वया अन्वहं प्रत्यहं जलजेन वितन्यमाना क्रियमाणा पूजा अस्मान्न धिनोति प्रीणयति । किंतु तव प्रसादाय प्रीतिकलहे प्रसन्नत्वाय नमस्कारकरणवशादुपनते नम्रे नोऽस्माकं मौलौ शिरसि त्वत्पदपङ्कजाभ्यां चरणाघातवशात्त्वच्चरणकमलाभ्यां तु पूजास्तु । कमलपूजापेक्षया त्वञ्चरणकमलयोरुत्कृष्टत्वात्साऽस्माकं



  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. -'अस्माकमस्मान्मदनापमृत्योस्त्राणाय पीयूषरसायनानि । सुधारसादप्यधिकं प्रयच्छ प्रसीद वैदर्भि निजाधरं नः ॥ इति (१०४) श्लोकोपि क्वचिन्मूलेऽस्मात्प्राक् पठित उपलभ्यते ।
  3. अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी
  4. 'अत्रानुप्रासकाव्यलिङ्गालंकारः' इति साहित्यविद्याधरी
  5. 'तव प्रसादाय नते तु' इति जीवातुस्थपाठः