पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
अष्टमः सर्गः।

  कंदर्प एवेदमविन्दत त्वां पुण्येन मन्ये पुनरन्यजन्म ।

  चण्डीशचण्डाक्षिहुताशकुण्डे जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥ ३३ ॥

 कंदर्प इति ॥ कंदर्प एव महता पुण्येन त्वामेव त्वद्रूपमेव इदं दृश्यमानं पुनरप्यन्यजन्माविन्दत लेभ इत्यहं मन्ये जाने । कुतः- यद्यस्मात्स मदनः चण्डीशः शिवः, तस्य चण्डं दुःसहमक्षि तृतीयं नेत्रं तल्लक्षणं यद्धुतास्कशकुण्डं तस्मिन्निन्द्रियाणां मन्दिरं गृहं शरीरं जुहाव । पूर्वापेक्षयाधिकसौन्दर्यप्राप्त्याशया बुद्धिपूर्व कामेनाग्निकुण्डे स्वशरीरं क्षिप्तं, तेनैव पुण्येन त्वद्रूपं जन्म प्राप्तम् । अन्येनापि तथैव क्रियते । स एव त्वमिति भावः[१]

  शोभायशोभिर्जितशैवशैलं करोषि लज्जागुरुमौलिमैलम् ।

  दस्रौ हठश्रीहरणादुदस्रौ कंदर्पमप्युज्झितरूपदर्पम् ॥ ३४ ॥

 शोभेति ॥ त्वं शोभायशोभिः कान्तिकीर्तिभिः कृत्वा जितः शैवो हरसंवन्धी शैलः कैलासो येन एवंविधमैलं पुरूरवसं हठेन बलात्कारेण श्रीहरणाच्छोभाग्रहणाल्लज्जया गुरुर्नम्रो मौलिः शिरो यस्य एवंविधं करोषि । तथा-कान्तिकीर्तिभिः जितकैलासौ दस्रावाश्विनेयावपि हठश्रीहरणादुदस्रौ गलद्बाष्पौ करोषि । तथातस्मादेव हेतोः कंदर्पमप्युज्झितस्त्यको रूपदर्पः सौन्दर्यगर्वो येन एतादृशं करोषि । चतुर्भ्योऽपि त्वमधिकं सुन्दरतर इति भावः । अन्योऽपि वलाद्गृहीतधनः सलज्जो गलद्बाष्पस्त्यक्तदर्पश्च भव[२]ति॥

  अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।

  उड्डीय युक्तं पतिताः स्रवन्तीवेशन्तपूरं परितः प्लवन्ते ॥ ३५ ॥

 अवैमीति ॥ वलक्षा धवला हंसावलयो हंसपङ्क्तयः त्वत्कान्तेस्त्वत्सौन्दर्यस्य या कीतिर्यशस्तस्य चपलाश्चञ्चलाः प्रसरणशीलाः पुलाकास्तुच्छधान्यांशा इत्यहं जाने । 'बलाकाः' इति पाठे ताश्चेति व्याख्येयम् । पुलाकत्वं समर्थयते-अत एव ता उड्डीयोत्पत्य स्रवन्तीनां नदीनां वेशन्तानां पल्वलानां च पूरं प्रवाहं परित उभयतः पतिताः सत्यः युक्तं प्लवन्ते । यत्प्लवन्ते तदुचितमित्यर्थः । पुलाका अप्यतिलघुत्वादुत्पत्य नद्यादौ पतिताः सन्तो गौरवाभावात्तरन्ति । तस्माद्धंसादीनां पुलाकत्वं घटत इत्यर्थः । शुभ्रा हंसावलयो न, किंतु त्वत्कान्तिकीर्तेः पुलाकाः सर्वत्रोड्डीय पतिताः सत्यो नदीरल्पसरांसि च पूरयित्वा प्लवन्ते । ईदृक् सुन्दरतरः कोऽपि न दृष्ट इति भावः । 'वलक्षो धवलोऽर्जुनः', 'स्यात्पुलाकस्तुच्छधान्ये', 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । पूरं परितः, 'अभितःपरितः-' इति द्विती[३]या ॥


  1. 'अत्र छेकानुप्रासातिशयोक्त्युत्प्रेक्षालंकाराः' इति 'साहित्यविद्याधरी।
  2. 'अत्रानुप्रासदीपकालंकारौ' इति साहित्यविद्याधरी
  3. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।