पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
नैषधीयचरिते

तयोरीदृक्शोभाभावादियमेव तदन्यत्वज्ञापिकेत्यर्थः । नास्तिमूर्तिः, 'अस्तिक्षीरादयश्च' इति बहुव्रीहौ पश्चान्नकारेण समासः[१]

 आलोकतृप्तीकृतलोक यस्त्वामसूत पीयूषमयूखमेनम् ।
 कः स्पर्धितुं धावति साधु सार्धमुदन्वता नन्वयमन्ववायः ॥३०॥

 आलोकेति ॥ हे आलोकेन दर्शनेन तृप्तीकृतः कृतार्थीकृतो लोको येन तत्संबोधनम् । यः त्वाम् एनं त्वद्रूपं पीयूषमयूखं चन्द्रमसूत स कः । अयमन्ववायो वंश उदन्वता सार्धं स्पधितुं स्पर्धा कर्तुं साधु युक्तं धावति । समुद्रसाम्यार्थं झटिति बुद्ध्युपारूढो भवतीत्यर्थः । समुद्रोऽप्यालोकेन प्रकाशेन तृप्तीकृतभुवनं सुधाकरं सूते । कस्मिन्वंशे समुत्पन्नोऽसीत्यपि कथयेति भावः । 'आलोकौ दर्शनोद्दयोतौ', 'लोकस्तु भुवने जने' इत्यमरः[२]।।

 भूयोपि[३] बाला नलसुन्दरं तं मत्वामरं रक्षिजनाक्षिबन्धात् ।
 आतिथ्यचाटून्यपदिश्य तत्स्थां श्रियं प्रियस्यास्तुत वस्तुतः सा ॥

 भूयोपीति ॥ सा बाला तं नलं रक्षिजनानां दौवारिकाणामक्षिबन्धान्नेत्रबन्धनात् अदृष्टीकरणान्नलवत्सुन्दरं नलसदृशममरं देवं मत्वा निश्चित्य आतिथ्यसंबन्धीनि चाटूनि प्रियवचनान्यपदिश्य व्याजीकृत्य तह्याजेन तत्स्थां तस्मिन्नमरे विद्यमानां प्रियस्य नलस्य श्रियं शोभां वस्तुतस्तत्त्वतः अस्तुत पुनरपि वर्णयति स्म । प्रियवचनव्याजेन तत्त्वतो नलशोभावर्णनतत्परैव बभूवेति भावः[४]

 पुनरपि किमित्यस्तुतेत्याशङ्क्य कविराह-

 वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् ।
 खलत्वमल्पीयसि जल्पितेऽपि तदस्तु बन्दिभ्रमभूमितैव ॥ ३२ ॥

 वागिति ॥ गुणैरद्भुते आश्चर्यभूते वस्तुनि मौनिता मूकीभावश्चेत् गुणाद्भुतं वस्तु न वर्ण्यते चेत्, तर्हि वाग्जन्मनो वैकल्यमसह्यशल्यमतिदुःखदायि दुःसहशल्यतुल्यं भवतीत्यर्थः । मूकस्य तस्य च न कोपि विशेष इत्यर्थः । तर्ह्यल्पमेव वक्तव्यमित्यत आह-अल्पीयसि जल्पिते तु भाषिते तु खलत्वं दुर्जनत्वमायाति लोकस्तं दुर्जन इति वदति । तस्माद्वन्दिनः स्तुतिपाठकस्य यो भ्रमः स्तुतिपाठकोऽयमिति भ्रान्तिस्तस्या भूमितैव स्थानतैवास्तु भवतु । गुणाद्भुतं वस्तु बह्येव वर्णनीयमिति कवेरुपदेशवचः । तस्मात्तया युक्ता स्तुतिरारब्धेति भावः । तस्मान्मयि स्तुतिपाठकभ्रान्तिर्लॊकस्य भवत्विति भैमीवचो वेति भावः[५]


  1. अत्र निश्चयगर्भसंदेहो व्यतिरेकालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र श्लेषरूपकोपमालंकारः' इति साहित्यविद्याधरी
  3. 'इतीरयन्ती' इति पाठः सुखावबोधासाहित्यविद्याधरीसंमतः ।
  4. 'अत्र श्लेषरूपकोपमालंकाराः' इति साहित्यविद्याधरी
  5. 'अत्र काव्यलिङ्गमालंकरः' इति साहित्यविद्याधरी