पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
नैषधीयचरिते

  भवत्पदाङ्गुष्ठमपि श्रिता श्रीर्ध्रुवं न लब्धा कुसुमायुधेन ।

  रतीशजेतुः खलु चिह्नमस्मिन्नर्धेन्दुरास्ते न[१]खवेषधारी ॥३६ ॥

 भवदिति ॥ मकरध्वजेन भवत्पदस्य भवच्चणस्याप्यवयवभूतोऽङ्गुष्ठः, तमपि श्रिता श्रीः शोभा तस्मात्कारणात् ध्रुवं प्रायेण न लब्धा । अन्यावयवशोभाप्राप्तेः का वार्ता । तस्मात् कुतः-खलु यस्मात् अस्मिन्नङ्गुष्ठे नखवेषं नखव्याजं धारयतीति धारी दधत् अर्धेन्दुरर्धचन्द्रलक्षणं रतीशजेतुर्महादेवस्य चिह्नमास्ते विद्यते । स्वशत्रुचिह्न नखरूपमधन्, विलोक्य तद्गतां श्रियं ग्रहीतुं विभेतीत्यर्थः । अन्योपि स्वशत्रुचिह्नं दृष्ट्वा तच्छ्रियं ग्रहीतुं न शक्नोति । कामस्त्वत्पादाङ्गुष्ठनखसदृशोपि न भवतीति भावः । कामजयिनमीशमपि जित्वा तच्चिह्नं येनापहृतं तस्याङ्गुष्ठस्य श्रियं कामः कथं लभेतेति भावः। त्वदङ्गुष्ठः कामस्य जेता, अर्धचन्द्राङ्कितत्वाद्यथा शिव इत्यनुमानमत्र प्रमाणमित्यर्थः। त्वन्नखाश्चन्द्राकारा इति । रतीशजेतुः, शेषपष्ठीसमासः[२]

  राजा विजानामनुमासभिन्नः पूर्णा तनूकृत्य तनूं तपोभिः ।

  कुहूषु दृश्येतरतां किमेत्य सायुज्यमाप्नोति भवन्मुखस्य ॥ ३७॥

 राजेति ॥ अनुमासं प्रतिमासं भिन्नः पुनरुत्पद्यमानत्वादन्य एव द्विजानां राजा चन्द्रः पूर्णिमायां पूर्णां तनूं शरीरं चान्द्रायणादितपोभिरिव तनूकृत्य क्षयं नीत्वा कुहूषु प्रतिमासामावास्यासु दृश्येतरतामदृश्यत्वमेत्य प्राप्य भवन्मुखस्य सायुज्यमैक्यं आप्नोति गच्छति किम् । तपासामर्थ्येन त्वन्मुखैक्यं गत इत्यर्थः । चन्द्रादप्यधिकं भवन्मुखमिति भावः । अन्योपि ब्रामणश्रेष्ठः पूर्वसंस्कारवशात्तपोभिः शरीरं कशीकृत्य ब्रह्मैक्यं गच्छति । 'दृश्येतरतामिषेण' इति क्वचित्पाठः[३]

  कृ[४]त्वा दृशौ ते बहुवर्णचित्रे किं कृष्णसारस्य तयोर्मृगस्य ।

  अदूरजाग्रद्विदरप्रणालीरेखामयच्छद्विधिरर्धचन्द्रम् ॥ ३८ ॥

 कृत्वेति ॥ विधिः ते दृशौ बहुभिर्वर्णैः कृष्णशुक्लरक्तरूपैश्चित्रे नानावर्णे, आश्चर्यरूपे च कृत्वा कृष्णवर्ण एव सारः श्रेष्ठोंऽशो विद्यते यस्मिन्नेतादृशस्य मृगस्थ तयोर्दृशोरदूरे निकटे जामती स्फुरन्ती विदररूपा नेत्राधोगर्तरूपा प्रणाली रेखा तामेवार्धचन्द्रमयच्छहत्तवान्किम् । त्वन्नेत्रसादृश्याभिलाषिण्योर्मृगदृशोरधोवर्तमानगर्तमिषेण धिक्कारसूचनार्थं परीक्षको ब्रह्मा गलहस्तं दत्तवान् । 'विदरः स्फुटनं भिदा' इत्यमरः[५]

  मुग्धः स मोहात्सुभगान्न देहाद्ददद्भवद्भ्रूरचनाय चापम् ।

  भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदातदाभूत ॥ ३९ ॥


  1. 'नखकैतवेन' इति पाठः सुखावबोधासाहित्यविद्याधरीसंमतः ।
  2. 'अत्र सापह्नवोत्प्रेक्षालंकारौ' इति साहित्यविद्याधरी ।
  3. 'अत्रातिशयोक्त्यपह्नुतिरलंकारः' इति साहित्यविद्याधरी ।
  4. 'विधाय चित्रे तव धीर नेत्रे' इति 'प्रणालीच्छलाद्' इति च सुखावबोधासाहित्यविद्याधरीसंमतः पाठः ।
  5. 'अत्र सापह्हवोत्प्रेक्षालंकारः' इति । साहित्यविद्याधरी।