पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
नैषधीयचरिते

नैषधीयचारत सङ्ग्रामस्य निदानं भूत्वा नलप्रस्तावादिति वा । अथच-अकाण्डं पर्वरहितं ब्रह्मणा मयि निमित्ते सृष्टस्य वीरणतृणस्य मूलं भूत्वा नलदत्वमुशीररूपतां प्राप्य संतप्तस्य हृदयस्य चन्दनलेपेन यत्कृत्यं शीतलत्वरूपं कार्यं किं न कर्तासि । काकुः, आक्षेपो वा । तवापि नलदत्वाध्दृश्चन्दनलेपकृत्यं युक्तमेव । नलप्राप्तावेवाहं हृदश्चन्दनलेपं करिष्यामि, नान्यथेति भावः। 'स्थाद्वीरणं वीरतृणं मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यम्' इत्यमरः । कृत्यम् , 'विभाषा कृवृषोः' इति क्यपि तुक् ॥ शीघ्रमेवैतत्कर्तव्यमित्याह-

अलं विलम्ब्य वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः।
गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमर्तिः ॥ ९१ ॥

अलमिति ॥  हि यस्मादियं त्वरितुं त्वरा कर्तुं वेला एतत्कार्यं कर्तुं शीघ्रं गन्तुमयं समयः, अतो विलम्ब्यालं विलम्बो न कार्यः । क्षणं विचार्य करिष्यामीत्यत आह-किल यस्मात्स्थैर्यसहे विलम्बसहे कार्ये विषये विचारः ।क्रियत इति शेषः। इदं तु विलम्बसहं न भवतीति विचारो न युज्यत इत्यर्थः । तत्र हेतुमाह-अर्तिः तीक्ष्णा पीडा प्रकृते विरहपीडा जातु कदाचिदपि कालं न प्रतीक्षते । तत्र दृष्टान्तः- का कमिव । तीक्ष्णा कुशाग्रतुल्या शिष्यस्य प्रतिभा प्रज्ञा गुरूपदेशमिव गुरूपदेशात्पूर्वमेव शास्त्रार्थं गृह्णाति । लोकेऽपि यावद्विवाहादिसमयः समायाति तावत्पूर्वमेव त्वरा भवति । शीघ्रमेतत्कार्यं साधयेति भावः । त्वरितुम् , 'कालसमयवेला-' इति तुमुन् ॥ श्लोकचतुष्टयेन विज्ञापनावसरमुपदिशति-

अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् ।
प्रियास्यदाक्षिण्यबलात्कृतो हि तदोदयेदन्यवधूनिषेधः ॥ ९२ ॥

 अभ्यर्थनीय इत्यादिना ॥ इतो गतेन त्वया शुद्धान्तगतोऽवरोधमध्यस्थितः स राजा भैमी त्वयानुग्राह्येति मदर्थं नाभ्यर्थनीयः । मद्विषयं किमपि न वक्तव्यमित्यर्थः । गतेन त्वयाभ्यर्थनीयः परंतु शुद्धान्तगतो नेति वा । एवमग्रिमश्लोकत्रयेऽपि षणस्य नञा संबन्धः कार्यः। किमिति ने त्याशङ्क्याह -हि यस्मात्तदा तस्मिन्सम- ये प्रियाणामास्यानां तेषु वा दाक्षिण्यस्यानुरोधस्य बलादाधिक्यात्कृतोऽन्यवधूनिषेधोऽन्यस्त्रीनिषेध उद्यत्प्रादुर्भवेत् । यद्यप्यन्यस्त्रीवासनास्य स्यात्तथापि तत्समक्षं प्रार्थिते तन्मुखावलोकनेन जनितया लज्जया, प्रीत्या वा एताभ्यः सकाशादन्या कापि सुन्दरी नास्तीति निषेध उद्येदिति हेतोर्न प्रार्थनीयस्तदेत्यर्थः । 'शुद्धान्तश्चावरोधश्च' इत्यमरः। 'अर्थ उपयाचने ॥ १ 'वीरणस्य' इति शब्दश्लेषः, अन्यत्रार्थश्लेषः । तथाच 'नलदत्वमेत्य च' इति प्रकृताप्रकृतयोरभेदाध्यवसायेन हंसे आरोप्यमाणस्योशीरस्य प्रकृत्या तादात्म्येन चन्दनकृत्यलक्षणप्रकृतकार्योपयोगात्परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । स चोक्तश्लेषप्रतिबिम्बोत्थापित इति संकरः' इति जीवातुः ।। २. अत्र काव्यलिङ्गोपमे' इति साहित्यविद्याधरी । 'उपमार्थान्तरन्यासयोः संसृष्टिः'

इति जीवातुः। ३ 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी।