पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। वराटिकेति ॥ अथवेति पूर्वोक्तापरितोषे । इभ्या धनिकाः। धनलुब्धा इवेत्यर्थः। वराटिकोपक्रियया कपर्दकदानमात्रोपकारेणापि लभ्यान्सुलभान्कृतज्ञान्साधून्नाद्रियन्ते न समानयन्ति। आदरं न कुर्वन्तीत्यर्थः । तुः पुनरर्थे । हन्त आश्चर्ये । सन्तस्तु साधवः पुनः प्राणैरेव पणैर्मूल्यैस्तानेव कृतज्ञान्क्रीणन्ति क्रयेण गृह्णन्ति । कृतज्ञोपकारार्थं प्राणानपि त्यक्त्वा तानर्जयन्तीत्यर्थः । किंभूताः सन्तः-स्वमात्मानं निपुणं कुशलं भणन्तो ब्रुवन्तो मानयन्तः। प्राणाधिकं मूल्यमर्हन्त एतेऽस्माभिरल्पेन मूल्येन लब्धा इति वयं कुशला इति संतुष्यन्ति । अतः फलाभावेऽपि साधुना त्वया कृतज्ञाहं क्रेतव्या । मां जीवदानं कुर्विति भावः। 'दाने तपसि शौर्ये वा यस्य न प्रथितं यशः । विद्यायामर्थ- लाभे वा मातुरुच्चार एव सः॥' इति । 'इभ्य आढ्यो धनी' इत्यमरः । इभमर्हति, दण्डा- दित्वाद्यः॥ बलात्कारेणापि त्वत्तो नलो याचनीय इत्युक्तिविशेषेणाह- स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे। न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाभूः ॥ ९ ॥ स इति ॥ यतः स भूभृत् राजा नलोऽष्टावपि लोकपालाः। लोकपालांशत्वात्त एवासावित्यर्थः । अतः तस्मिन्नल एव एकाग्रा निश्चिता धीर्यस्यास्तस्या मे मम तैर्लोकपालैः प्रसेदे प्रसन्नीभूतम् । नलस्य तदंशत्वात्ते मम भक्तायाः प्रसन्ना जाताः। प्रसन्नत्वेऽन्यथानुपपत्ति प्रमाणयति-हि यस्मात्त्वमेत्यागत्य स्वयमप्रेरित एव मम यत्तदाप्तिप्रतिभूः नलप्राप्तिलग्नकोऽभूः जातोऽसि तदप्यवेहि स्वशये शयालुः' इत्यादिना, तत् लोकपालप्रसाव्यतिरेकेण न घटते । लोकपालैर्मम विश्वासार्थं त्वं लग्नकः कृतः, अतस्त्वामेव नलं याचे । लोके प्रतिभूरेव पीड्यते, धनिकाधमर्णयोरन्तरे स्थितत्वात् । प्रतिभूरित्यत्र 'भुवः संज्ञान्तरयोः' इति क्विप् ॥ नलदातृत्वं विना तवानौचित्यमेव स्यादित्याह- अकाण्डमेवात्मभुवार्जितस्य भूत्वापि मूलं मयि वीरणस्य । भवन्ना मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ ९०॥ अकाण्डमिति ॥ अकाण्डमेवाप्रस्ताव एव कौमार एव आत्मभुवा कामेनार्जितस्य मयि जनितस्य रणस्य शब्दस्य रहस्यकथनस्य मूलं कारणं भूत्वापि विः पक्षी भवानलदत्वं नलस्य दातृत्वमेत्य प्राप्य मे हृदः चन्दनलेपस्य कृत्यमङ्गरागकार्यं किं न कर्ता, मम हृदयं नलदानेन शीतलं विरहसंतापरहितं किमिति न कुरुषे। एवं तावत्कर्तुं युक्तम्, अन्यथा त्वया रहस्यकथनं किमिति कारितम्, ततो नलदो भवेति भावः । कामपीडा कौमारे न युज्यते, किं तु तारुण्ये । मया बालत्वे कामपीडा कथिता नलमुद्दिश्य, तत्र कारणं त्वमेव जातोऽसीत्यर्थः । अकाण्डं शररहितं यथा भवति तथा कामजनितस्य १ 'अत्रोपमाप्रशंसारूपकालंकारः' इति साहित्यविद्याधरी। २ 'अत्र रूपकमनुमानं च' इति साहित्यविद्याधरी। ३ 'अकालम्' इति साहित्यविद्याधरीसंमतः पाठः । १८