पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः।

शुद्धान्तसंभोगनितान्तनुष्टे न नैषधे कार्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा खादुः सुगन्धिः स्वदते तुषारा ॥९३॥

 शुद्धान्तेति ॥ त्वया शुद्धान्तसंभोगेनान्तःपुरस्त्रीसुरतेन नितान्ततुष्टेऽतिशयेन संतुष्टे । शान्तकामे इति यावत् । नले इदं पूर्वोक्तं कार्यं न निगाद्यं न वक्तव्यम् । सतिसप्तमी वा । हि यस्मादपामद्भिस्तृप्ताय पुरुषाय स्वादुः सुरसा सुगन्धिः कर्पूरादिना तुषारा शीतला च वारिधारोदकधारा न रोचते । पिपासाया अभावात्पीतादुदकादुत्कृष्टमप्युदकं यथा तस्मै न रोचते तथा संभोगेन शान्तमदनत्वात्तद्वधूभ्योऽभ्यधिकाहं तस्मै न रोचेयम् । तस्मात्तदापि न वक्तव्यमिति भावः। निगाद्यम् , सोपसर्गाद्गदतर्ण्यत् । सुहितार्थयोगे 'पूरणगुण-' इति षष्ठीसमासनिषेधादेव अपामिति षष्ठी। तृप्त्यर्थानां करणे षष्ठी च' इति वा । तृप्ताय 'रुच्यर्थानाम्-' इति चतुर्थी । सुगन्धिरिति 'गन्धस्येत्-'। तुषारेत्यभिधेयलिङ्गता॥

त्वया निधेया न गिरो मदर्थाः क्रुधा कदुष्णे हृदि नैषधस्य ।
पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ॥ ९४ ॥

 त्वयेति ॥ हे हंसकुलावतंस हंसवंशभूषण, नैषधस्य हृदि क्रुधा क्रोधेन कदुष्णे ईष- त्तप्ते सति मदर्था मत्प्रयोजना गिरो वाचस्त्वया न निधेयाः कर्तव्याः। यतः -पित्तेन पित्तदोषेण रसने रसनेन्द्रिये दूने दूषिते सति सितापि शर्करापि तिक्तायते तिक्तेवाच- रति निम्बतुल्यरसा भवति । अहं शर्करातुल्यापि तिक्ता स्यामित्यर्थः । 'शर्करा सिता' इत्यमरः । 'कवं चोष्णे' इति चकारात्कदुष्णम् । रस्यतेऽनेनेति रसनम् । तिक्तेवाचरतीति 'कर्तुः क्यङ्-' इति क्यङ् । तिक्ता भवतीति वार्थै लोहितादित्वात्क्यष् । 'वाक्यषः' इत्यात्मनेपदम् ॥

धरातुरासाहिमदर्थयाच्ञा कार्या न कार्यान्तरचुम्बि चित्ते ।
तदार्थितस्यानवबोधनिद्रा बिभर्त्यवज्ञाचरणस्य मुद्राम् ॥ ९५ ॥

 धरेति ॥ हे हंस, त्वया धरायां तुराषाट् इन्द्रस्तस्मिन्पृथ्वीन्द्रे नले पूर्वोक्तव्यतिरिक्तकार्यान्तरचुम्बि कार्यमात्रासक्तं चित्तं यस्य एवंभूते सति मदर्थयाच्ञा न कार्या [न] विधेया । यतः तदा कार्यान्तरासक्तिसमयेऽर्थितस्य. याचितस्य अनवबोधोऽनाकर्णनं तल्लक्षणा निद्रा अवज्ञाया अवहेलनाया आचरणं करणं तस्य मुद्रां सादृश्यं बिभर्ति धारयति । असमये कार्यान्तरासक्तत्वात्तव विज्ञापनां यदि न शृणुयात्तदा इदं कार्यमस्मै न रोचत इति विचार्य तवापि पुनर्विज्ञापनायां बुद्धिर्नोदीयादिति भावः। तुरासाहि इति प्रयोगो भाषायां 'छन्दसि सहः' इति ण्विप्रत्ययस्य छन्दसि विहितत्वाञ्चिन्त्यः । गिरिशादिवन्महाकविप्रयोगादस्यापि छान्दसत्वस्य प्रायिकत्वाद्वा परिहर्तव्यम् । प्र-


१ 'अर्थान्तरः' इति साहित्यविद्याधरी । 'दृष्टान्तालंकारः' इति जीवातुः । २. अत्राप्यर्थान्तरः । 'तिक्तायते' इत्युपमा' इति साहित्यविद्याधरी । 'अत्रापि दृष्टान्तालंकारः' इति जीवातुः। ३. 'लोके तु साहयतेः क्विप्' इति सिद्धान्तकौमुद्यां दीदि.