पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


९२
नृसिहप्रसादे

“मधुपर्के च सोमे च शसु प्राणाहुतीषु च ।
नोच्छिष्टस्य भवेदोषस्त्वनेश्च वचनं तथेति ॥

अप्सु इति । भोजनोत्तरममृतोपस्तरणमसीत्यमृतीकरणार्थ या

आपो गृह्यन्ते तास्विति यावत् । मधुपर्कादिषु मन्त्रोच्चारणे कार्ये उ
च्छिष्टदोषो न हि ।
तथा

“ताम्बूलेनुफले चैव भुक्तस्नेहावशिष्टके।
दन्तलग्नस्य संस्पर्शी नोच्छिष्टो भवति द्विजः ।
त्वग्भिः पत्रैर्नूलफलैः तृणकाष्ठप्रयैस्तथा ।
सुगन्धिभिस्तथा द्रव्यैनोच्छिष्टो । भवति द्विजः" इति ।

उच्छिष्ट इति आचमनार्हप्रायश्चित्तयुक्तः स उच्यते । द्रव्यं

च भक्ष्यभोज्यादि। आचमनविधावेवं युक्तम्। श्रमणिबन्धं पाणी प्रक्ष
स्याविति। यदि कश्चिद् द्रव्यहस्त उच्छिष्टस्पृष्टस्तदा तदा द्रव्यं निधा
यैवाचननं कर्तव्यम्। तत्रायं भावःयथा पुरुषाशौचसम्बन्धात् द्रव्य
मशुचि सम्भवति तथैव तच्छौचसम्बन्धाच्छुचि भवतीति । न चात्र
द्रव्यं निधयाऽऽचामेदिति गौतमवाक्यविरोधः । गरीयो द्रव्यं निधा
याचामेदित्येवं परत्वात् । ततश्च गरीयो निधायान्यदङ्गस्थं कृत्वाऽs
चापेदिति शास्त्रार्थः ।
तथा

‘दधि सर्पिः पयः क्षौद्रं भाण्डदोषो न विद्यते ।
मार्जारवैव दर्वी च मारुतश्च सदा शुचि॥