पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
श्राद्धसारे श्राद्धभेदः

तथा

‘मार्जारनकुलौ स्पृष्टौ शुद्धाश्च मृगपक्षिणः" इति ।
कर्मणि मार्जारस्पर्श स्नानम् । ततश्च अदृष्टोपहन न दोषः ।



इति श्रीमच्दमीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन
समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धर श्रीमन्म
हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे
श्रद्धसारे धान्यशुद्धिः।




तत्र आढं द्विविधं पार्वणमेकोद्दिष्टं च । तत्र पार्वणं नाम यत्र
पुरुषत्रयमुद्दिश्य क्रिया तत्पार्वणम् , एकपुरुषोद्देशेन क्रियमाण
मेकोद्दिष्टम् । एतद् द्विविधमपि त्रिविधं, नित्यं नैमित्तिकं काम्यं च।
तत्र जीवनोपाधितया विहित नित्यं यथा दशै विहितममावास्याश्रा
दम् इति । अनियतनिमित्तकं नैमित्तिकं यथा चन्द्रोपरागादौ विहि
तम् । कामनानिमित्ततया विहितं काम्यं । यथा तिथिनक्षत्रादिषु ।
पुनर्दादशधा नित्यनैमित्तिककाम्यवृद्धिश्राद्धसपिण्डपार्वणगोष्ठीशुद्धय
`कर्माङ्गदैविकयात्रापुष्ट्यर्थानि ।
तथोक्तं विश्वामित्रेण

“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ।
पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्धयर्थमष्टमम् ।