पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


देवलः

‘अभोज्यं प्राहुराहरं शुक्तं पर्युषित सदा ।
अन्यत्र मधुसक्तुभ्यां भक्तेभ्यः सपिषो गुडात् ।

शत्रु

‘नाद्याच्छस्त्रनिषिद्धं तु भक्ष्यभोज्यादिकं द्विज।’ इति ।

अभोज्यमित्यनुवृत्तौ वसिष्ठ

"अन्नं पर्युषितं कामं दध्ना घृतेन वाऽभिघारितमुपभुञ्जीत ।
अयमथहै-दध्ना घृतेन वाऽभिघारितं मयपर्पतमन काममश्नीयान्
इति । उपभोजयेदित्यनुवृत्तौ
आपस्तम्व =
"उदकेऽवधाय परकृतान्नं पर्युषितमिति। यदा परानप्युदकेऽस्र
धाय स्थापित तदा तदन्नं पर्युषितमपि उपभुञ्जीत । एवं च काञ्जिकं
सम्पादयितुं तण्डुलप्रक्षालनोदके निहितस्याननिस्रावस्य रात्र्यन्तरि
तस्य पर्युषितत्वमभोज्यत्वं नास्तीति । तज्जातस्य काञ्जिकस्यापि
अभोज्यत्वं नास्तीति मन्तव्यमिति । एवमेवाभिहित स्मृतिचन्द्रिका
करैरपि ।

‘चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं चंव सव च रसविक्रिये"ति ( ४-२५ )।

यवगोधूम्रक्ताः स्नेहसंयोगरहिता अपि अनेकरात्रयन्तरिता

द्विजातिभिभोज्याः पयोविकारा दध्यादयः । ततो मरडकाः