पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


७०
नृसिहप्रसादे

तदुक्त शब्द्धेन

अपूपाः सक्तवो धानास्तनं दधि घृतं मधु ।
एतत्पण्येषु भोक्तव्यं सान्द्रलेपो न चेद् भवेत्" इति ।
तथा–पर्युषितमपि किचिदोक्तव्यम् । यथा
‘अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियार्थ इति ।।

तथा द्वल. -

“अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् ।
अपूपा यवगोधूमविकारा मण्डकादयः ” ।

वटका माषादिपिष्टमयाः प्रसिद्धाः पुनरपूपग्रहणं त्रीह्याद्यपूप

विकारोपादानार्थम् । कृसरं तिलोदनम् । स्नेहसंयुक्तं घृतेन दध्ना
वा ऽभिघारितम् । एतत् सर्वं पर्युषितं शुक्तव्यतिरिक्तं भोज्यम् ।
शुक्तमत्यलम् ।

अत्यम्लं शुक्तमाख्यात निन्दित ब्रह्मवादिभिरिति
बृहस्पतिस्मरणात् ।

ततश्च शुक्तं स्वभावतो यदनम्लो केबलकालपरिवासेन द्रव्या

न्तरसंसर्ग कालपरिवासाभ्यां वा यदस्लीभवति पायसादि न द
ध्यादि तदभिधीयते । रात्रयन्तरितं पर्युषितं, ततः शुक्तप्रतिषेधो
दध्यादिव्यतिरिक्तविषयः ।

“दधि भक्ष्यं च शुक्तेषु सर्वे च दधिसम्भवम् ।
रुच्यं सपकं भक्ष्यं स्यात् सर्वे युक्तमितिस्थितिरिति
सङ्घस्मरणात् ।