पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


५६
नृसिहप्रसादे

त्रिकाण्डमण्डन –

“धूतार्थे गोघृतं ग्राह् तदभावे तु माहिषम् ।
आजं वा तदलाभे स्यात् इति शास्त्रविनिश्चयः” इति ।


अजाक्षरसम्भूतमजम् । क्षीरादिविषयेऽपि तेनैवोक्तम्

यत्र मुख्यं दधि क्षीर तत्रापि तदलाभतः ।
अजादेः क्षीरदध्यादि ग्राह्यमेव न संशयः ।
द्वौ मासौ मत्स्यमांसेन त्रीन्मांसान् हारिणेन तु ।
औौरभुणाथ चतुरः शाकुनेनेह पञ्च तु ।
षण्मासान् मृगमांसेन पार्षतेनेह सप्त वै ।
अष्टावैणेन मासेन रौरवेण नवेन तु ।
दश मासांस्तु वृष्यन्ति वराहमहिषामिषं: ।
शशकच्छपयोमसं मासानेकादशैव तु ।
संवत्सरं तु गव्येन पयसा पायसेन वा ।
वाघीणसस्य मांसेन तृप्तिद्वदश वार्षिकी ।
कालशाकं महाशल्काः खगं लोहामिषं मधु ।
आन्त्यायैव कल्पन्ते मुन्यनानि च सर्वशः इति ।
वाघीणसो रक्तवर्णयुद्धछागः ।


तदुक्तं विष्णुधर्मोत्तरे

‘त्रिपिबं त्विन्द्रियक्षीण यूथस्याग्रसरं तथा ।

रक्तवर्णं तु राजेन्द्र छगं वाधीणसं विदु'रिति । महाशको

मत्स्यविशेषः । खङ्गः खङ्गमृगलोहो लोहितवर्णछागः ।