पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


५५
श्राद्धसारे ग्राह्य हविर्द्रव्यनिर्णयः

अनुपस्कृतमविकृतं पूतिगन्धादिरहितं मांसम् ।

अक्षारलवणस्तु उच्यते

“तिलमुदाहृते शैब्यं सस्ये गोध्रमकोद्रवो ।
धान्यकं देवधान्यं च शमीधान्यं तथैक्षवम् ।
स्विन्नधान्य तथा पण्यं मूलं रगणः स्मृतः” इति ।

केचित्तु अत्र क्षारशब्देन सज्जीक्षारादिक पठन्ति ।

तदत्राग्राह्यम् , गोधूमप्रभृतीना महता प्रयासेन श्राद्धद्रव्य
त्वेनोपपादितत्वात् , तस्मादन्यत्र सज्जीक्षारादिक लवण ।
मत्र सामुद्रं सैन्धवं वा श्राद्धं न कृत्रिमं ग्राह्यम् । तथा च
ब्रह्माण्डपुराणे

‘‘सामुद्रं सैन्धवं चैव प्रकृत्या हविरुच्यते ।
पवित्रे परमे वैते प्रत्यक्षे अपि सर्वदा’ इति ।

अत्यक्षवचनं पवित्रत्वप्रतिपादनार्थं, न पुनर्दानाय, दानं चौ

दनादिना संमिश्रस्यैवेति ।
आदित्यपुराणे

“मधुकं रामठं चैव कपॅरं मरिचकॅडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रिपुसं तथा” इति ।

त्रिपुसशब्देन कश्चित्सस्कारको द्रव्यविशेषः । रामठं हिङ्गु ।

“यत्किञ्चिन्मधुना मिश्री गोक्षीरं घृतपायसम् ।

दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः” इति ।

अत्र दध्यादिकं महता प्रयासेनापि गव्यमेवोपादेयम् , तदसम्भवे

माहिषम् ।