पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


५७
श्राद्धसारे द्रव्यनिर्णयः

“खामिषं महाशल्क मधु मुन्यन्नमेव च ।
लोहामिषं महाशाक मासं वाधीणसस्य च ।
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः इति ।

मधु माक्षिकम् । सुन्यन समाराय नीचरादि । लोहस्तु

छागः, तदामिषं लोहामिषम् । महाशाकं कालशाकम् । स्पष्टम
न्यत् । अत्र यद्यपि मांसमध्वादीनि सर्ववर्णानां सामान्येन शुद्ध
योग्यानि दर्शितानि तथाऽपि पुलस्त्योक्ता व्यवस्था द्रष्टव्या

‘‘मुन्यन्नं ब्राह्मणस्योक्त मास क्षत्रियवैश्ययोः ।
मधुप्रधानं शूद्रस्य सर्वेषामविराध यन" ।

इति स्मरणात् ।

अयं हि स्मृत्यर्थ -नीवारादि मुन्यन्नं यच्छुद्धयोग्यमभिहितं तद् ब्राह्मणस्य प्रधान समग्रफलदम् , यच्च मांस तत् क्षत्रि यवैश्ययोः प्रधानं, यत् क्षौद्रमुक्तं तद् शूद्रस्य, एतत् त्रितयव्यतिरिक्त यदविरोधि चाप्रतिषिद्ध वस्तु शाकादि, यच्च वि हितं हविष्यं कालशाकादि, तत्सर्वेषां सर्वफलदं नतु ब्राह्मणस्य नी वारादि द्रव्यमेव प्रधान, क्षत्रियवैश्ययोस्तु मासं प्रधानमित्युक्तं, तत्कथं, यतो ह्यविशेषेण मांसं श्राद्धदो विहितं तद् ब्राह्मणच्यतिरि क्तानामेवेदमिति कश्चिन्नियमहेतुरस्ति येनेदृशी व्यवस्था भवेत् , अत्र भिधीयते सत्यमस्ति बहुषु ग्रन्थेषु श्राद्धदौ मांसोपादानं तद्यत्र भक्ष्य तया प्रवृत्तिस्तद्विषयमेवेस्यवगन्तव्यं, न सर्वविषयं, लोकगर्हित्वात् ।