पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


नस्य एकोद्दिष्टविषयता मन्यन्ते। ‘‘एकोद्दिष्टन्तु मध्यान्हइति वच नात् । केचिन्नवश्राद्धविषयता मन्यन्ते-‘मध्यान्हो वै मनुष्याणा मिति श्रुतेः। सपिण्डीकरणात्पूर्वमपितृरूपत्वाच्च । इदं चास्माभिः कालनिर्णयसारे विस्तरेण प्रपञ्चयिष्यते नेह विस्तरः । अन्यैरैपि विस्तरेण प्रपञ्चितं तदपि मृग्यम् । न चैवं सर्वकुतुपा परान्हविध्योर्विकल्प इति मन्तव्यम् । कुतुपोत्तरार्धस्य अर्धापराह्व न्तर्भावात् । कुतुपो हि पञ्चदशमुहूर्तात्मकस्याष्टमो मुहूर्तः ।

‘‘श्रन्हो मुहूर्ता विज्ञेया दश पञ्च च सर्वदा।
तत्राष्टमो मुहूत यः स कालः कुतपः स्मृतः” इति ।

ततश्च यदपगते विहित तदपराह्न्तर्गतकुतुपे कर्तव्यमिति ।

विधीयते निर्णय इति । तस्मान्न कश्चिद्विरोधः। अन्यथा कश्चि
कुतपे कर्तव्यमिति कश्चिद्विधत्ते, परः पुनः ‘रोहिणं न तु लङ्घये
दिति रौहिणे । ततः परस्तु अपराहे कर्तव्यति स्पष्ट एव विरोधो
भवेदिति । मत्स्यः

‘‘मध्यान्हे सर्वदा यस्मान्मदी भवति भास्करः ।
तस्मादन्तफलदस्तत्रारम्भो विशिष्यते इति ।

तथा हे गौतमः

प्रारभ्य कुतुपं श्राद्धं कुर्यादा रौहिणं बुध ।
विधिज्ञो विधिमास्थाय रौहिणं न तु लङ्घयेत् इति ।

इदं हि कुतुपे श्रद्धविधानमनग्निकविषयम् , साग्नेरनुष्ठित