पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२८
नृसिहप्रसादे

ग्रीष्मो यदा मध्यन्दिनोऽथ वर्षे यदाऽपराह्नस्तदा शरद् यदाऽ स्तमेत्यथ हेमन्त इति (शः ब्रा. २।२।२।८)। ततश्चऽनेकधापराल शब्दप्रयोगे कथं निर्णय इति चेत्-सत्यं, भवत्येव सन्देहस्तथापि सर्वसम्मतपरमर्षिवेदप्रवक्तृसाक्षाद्धर्मोपदेष्टमनुप्रणीता द्वित्राः पक्षाः स्वीकार्याः ।

‘‘शुक्लपक्षस्य पूर्वोते श्राद्ध कुर्याद्विचक्षणः ।
कृष्णपक्षापरावे तु रौहिणं न तु लक्षयेत्" इति

मार्कण्डयेन धा विभक्तस्यान्दो द्वितीये भागे श्राद्धस्यविधेः।

तथा “हिण न तु लङ्घयेत्” इति चतुर्थादिभागादर्वागेव समाप्ति
विधानाच्च रौहिणो हि नवमो मुहूर्तः। अपि च

‘भूतविद्धऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिद्य कुतुपकालिकी

इति । यदपि हार्तः श्रद्धाङ्गत्वेन कुतुपकालं विधत्ते, तदपि

अनुपपन्नं न स्यात् । मनुना तेन कुतुपकालस्य श्राद्धाङ्गवमम्यते ।
तत्र कुतुपकालग्रहणविधानात् इष्टार्थत्वोपयोगस्यैवोचित्यात् । त
दुक्तं स्कन्दपुराणे

“कुर्यत्र गोपतिगभिः कात्स्न्येन तपति क्षणे ।
स कालः कुतपो नाम श्राद्धं तत्र प्रदीयते इति ।

कुः पृथिवी । गोपतिः सूर्यः। अत्र केचिद्वदन्ति-ननु “एको द्विष्टं तु मध्यान्हे’ इति वचनात् एकोद्दिष्टविषय एव हि कुतुपकाल विधिः तच्च दर्शऽपि कुतुपविधेरपास्तम् । अपरे--कुतुपकालविधा