पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथापराह्ननिर्णयोऽभिधीयते ।


यद्यप्यमावास्यादौ श्राद्धं विहितं तथापि तदमावास्यायाः
मयपराहे कर्तव्यमिति । “अमावास्यायामपरादं पिण्डपितृयज्ञेन
यजेतेति श्रुते । स्मृतेश्च । तथा हि स्मरति शातातप

“‘दर्शश्राद्धं तु यत्रोक्तं पार्वण तम्प्रकीर्तितम् ।
अपराहे पितृणा तु तत्र दानं प्रशस्यते” इति ।

अपरालश्च पश्वधाविभक्तस्याह्नश्चतुथों भाग उच्यते

‘मुहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तः स्यादपरादोऽपि तादृशः ।
सायाह्नस्त्रिमुहूर्तः स्यात्सर्वधर्मबहिष्कृतः’ इति

व्यासस्मरणात् । न तु कदाचिद् वेधा विभक्तस्याहं द्वितीय

भागेऽपराह्शब्दः प्रयुज्यते ।

‘‘यथा चैव परः पक्ष पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्रदपराहो विशिष्यते" इति ।।

तथा

आवर्तनात्तु पूर्वोतो ह्यपराह्नस्ततः परम्” इति ।

अर्थस्तु श्रावर्तनादधः पूर्वोत् इति । तथा कचित्रिधा विभक्त स्याहस्तृतीयो भागोऽपरात इति। तथा-पूर्वाहो वै देवानामपराहः पितृणां मध्यन्दिनो मनुष्याणार्थमिति । वाजसनेयिकेऽपि-‘श्रा-